Enter your Email Address to subscribe to our newsletters

नवदेहली, ०२ जुलाईमासः (हि.स.)। मुख्यमन्त्री रेखा गुप्ता अवदत् यत् अधुना शासनव्यवस्था केवलं नीतिनिर्माणपर्यन्तं सीमिता न भवितुमर्हति, अपितु प्रौद्योगिक्या, नवाचारेण तथा जनसहभागेन समस्याः प्रभावकरूपेण स्थायिरूपेण च समाधातुं समयस्य आवश्यकता वर्तते। ‘दिल्ली नेक्स्ट्’ केवलं हैकाथॉन-कार्यक्रमः नास्ति, अपितु शासन-व्यवस्थायाः नवाचारस्य च मध्ये सेतुरिव अस्ति, यः युवजनानां विचारान् प्रत्यक्षतया शासकीयव्यवस्थया सह संयोजयिष्यति। सा एतानि वचनानि गुरुवासरे देहली-सचिवालये ‘दिल्ली नेक्स्ट् – कोड्, क्रिएट् ऐण्ड् चेञ्ज्’ इत्यस्य कार्यक्रमस्य अध्यक्षतां कुर्वती उक्तवती। एषः देशस्य महान् नागरिक-प्रौद्योगिकी-नवाचारकार्यक्रमः अस्ति। अस्य उद्देश्यं युवजनान्, स्टार्टअप्-संस्थानानि, अनुसन्धानकर्तॄन्, शिक्षणसंस्थानानि, नवाचारकर्तॄन् च एकस्मिन् समानमञ्चे सम्मान्य देहल्याः वास्तविकानां नागरिक-नागरसमस्यानां कृते प्रौद्योगिकी-आधारितान् समाधानान् विकसितुं वर्तते।मुख्यमन्त्री युवजनानां सामर्थ्ये विश्वासं प्रकटयन्ती अवदत् यत् अस्माकं देशस्य युवजनेषु असीमा प्रतिभा वर्तते। यदि तेभ्यः समुचितः मञ्चः, यथोचितं मार्गदर्शनम् उचितावसरश्च प्रदीयेत, तर्हि ते प्रशासनव्यवस्थायां महत्परिवर्तनम् आनेतुं समर्थाः भविष्यन्ति। देहली-सर्वकारः एतया दूरदर्शिन्या चिन्तया युवजनान् केवलं प्रतियोगिनः इव न पश्यति, अपितु सुशासने स्वसमभागिनः इव मन्यते। युवानः केवलं देशस्य भविष्यं न, अपितु विकसितभारतस्य महत्त्वाकाङ्क्षिणः अभियानस्य सिद्ध्यर्थम् अस्माकं सर्वाधिकं उज्ज्वलं वर्तमानम् इति।
मुख्यमन्त्री अवदत् यत् परम्परागताः हैकाथॉन-कार्यक्रमाः प्रायः पुरस्कारवितरणेन एव समाप्तिं यान्ति, किन्तु ‘दिल्ली नेक्स्ट्’ इत्यस्य कार्यक्रमस्य प्रमुखा विशेषता एषा अस्ति यत् अत्र चयनितानि समाधानानि केवलं प्रदर्शितानि न भविष्यन्ति, अपितु तानि सम्बन्धितैः शासकीयविभागैः सह सहयोगेन प्रायोगिकपरियोजनारूपेण कार्यान्वितानि भविष्यन्ति। सफलप्रतिमानानि क्रमशः शासकीयकार्यप्रणाल्यां समाकलितानि भविष्यन्ति, येन नागरिकेभ्यः प्रत्यक्षलाभं प्राप्तुं शक्येत।
अयं नवाचारकार्यक्रमः देहल्याः वास्तविकनागरिकसमस्यानां समाधानान्वेषणे केन्द्रितः आसीत्। सहभागिभिः नागराधारसंरचना, जलसञ्चयः, यातायातव्यवस्थापनम्, स्मार्ट्-पार्किङ्ग, वायुप्रदूषणम्, अपशिष्टव्यवस्थापनम्, विद्युद्वाहन-परितन्त्रं, नागरिक-अभियोग-निराकरणम्, डिजिटल-शासनव्यवस्था तथा नागरिकसेवाः इत्यादिषु विविधेषु क्षेत्रेषु नवाचाराधारितानि समाधानानि विकसितानि। अयं कार्यक्रमः त्रिषु चरणेषु आयोजितः। प्रथमे चरणे जागरूकता-प्रचार-अभियानेन देशस्य सर्वेभ्यः प्रदेशेभ्यः एककोट्यधिक-युवजनान् प्रति अस्य प्रसारः कृतः। द्वितीये चरणे द्विलक्षपञ्चाशत्सहस्राधिक-युवजनाः पञ्जीकरणं कृतवन्तः। तेषां प्राप्तेषु पञ्चसहस्राधिकेषु प्रौद्योगिकी-प्रस्तावेषु विशेषज्ञसमित्या विस्तृतमूल्याङ्कनं कृत्वा अग्रिमचरणाय सहस्रं सहभागिनः चयनिताः। अन्तिमचरणे देशस्य विभिन्नभागेभ्यः चयनिताः श्रेष्ठाः षष्टिपक्षाः मुख्यमन्त्रिणः पुरतः स्वकीयान् कार्यशील-प्रारूपान् नवाचारांश्च प्रत्यक्षरूपेण प्रदर्शितवन्तः।
‘दिल्ली नेक्स्ट्’ इत्यस्य अन्तर्गतं चयनितेभ्यः श्रेष्ठेभ्यः षष्टिपक्षेभ्यः अनन्तरमपि विशेषसहयोगः मार्गदर्शनं च प्रदास्यते। प्रत्येकं पक्षं सम्बन्धितेन शासकीयविभागेन सह संयोजितं भविष्यति तथा विशेषज्ञानां मार्गदर्शनम् अपि प्राप्स्यति। तेषां समाधानानां प्रायोगिकपरीक्षणं भविष्यति, सफल-परियोजनानां शासकीयव्यवस्थायां कार्यान्वयनार्थं स्पष्टा कार्ययोजना अपि निर्मास्यते।
मुख्यमन्त्री अवदत् यत् देहली-सर्वकारस्य लक्ष्यं राजधानीं देशस्य सिविक-टेक-कैपिटल-रूपेण प्रतिष्ठापयितुम् अस्ति, यत्र सर्वकारः, स्टार्टअप-संस्थानानि, उद्योगाः, शिक्षणसंस्थानानि तथा नागरिकाः निरन्तरसहयोगेन सुशासनस्य नवीनान् प्रतिमानान् विकसितुं शक्नुयुः। भविष्यस्य सर्वकाराः केवलं प्रशासनं न चालयिष्यन्ति, अपितु दत्तांशैः, कृतकबुद्ध्या, डिजिटल-नवाचारेण तथा नागरिकसहभागेन अधिकं प्रभावकरं, पारदर्शी, उत्तरदायि च शासनं प्रदास्यन्ति। ‘दिल्ली नेक्स्ट्’ तस्यैव भविष्यदिशे देहली-सर्वकारस्य महत्त्वपूर्णं दूरदर्शकं च पदम् अस्ति।
Hindusthan Samachar / Divya Ranjan