Enter your Email Address to subscribe to our newsletters

पटना, 02 जुलाईमासः (हि.स.)।
मुख्यमन्त्री सम्राटचौधरी गुरुवासरे पटनामेट्रोपरियोजनायाः मलाहीपकडी मेट्रोस्थानकस्य उद्घाटनं कृत्वा मेट्रोसेवायाः विस्तारं भूतनाथरोडस्थानकपर्यन्तम् अकरोत्। उद्घाटनानन्तरं मुख्यमन्त्री स्वयम् मेट्रोयानम् आरुह्य मलाहीपकडीस्थानकात् भूतनाथरोडस्थानकपर्यन्तम् अगच्छत्। तेन सह प्रदेशस्य उभौ उपमुख्यमन्त्रिणौ विजयकुमारचौधरी बिजेन्द्रप्रसादयादवश्च उपस्थितौ आस्ताम्।
मलाहीपकडीस्थानकस्य भूतनाथरोडस्थानकस्य च मध्ये प्रायः त्रिकिलोमीटरपरिमिता दूरी अस्ति। अस्य स्थानकस्य सञ्चालनस्य प्रतीक्षा स्थानीयजनैः बहुमासेभ्यः क्रियमाणा आसीत्। अधुना उद्घाटनानन्तरं सामान्ययात्रिकाः अपि मलाहीपकडीस्थानकात् मेट्रोसेवायाः लाभं प्राप्स्यन्ति।
मलाहीपकडीस्थानकस्य सञ्चालनारम्भेण अधुना अस्मिन् मार्गे चत्वारि मेट्रोस्थानकानि मलाहीपकडी भूतनाथ जीरोमाइल बैरियाआईएसबीटी च सञ्चालितानि भविष्यन्ति।
मलाहीपकडीस्थानकात् बैरियाआईएसबीटीस्थानकपर्यन्तं षड्दशमलवद्विकिलोमीटरपरिमिता दूरी केवलं षोडशमिनिटेषु गन्तुं शक्यते। प्रातः अष्टवादनात् रात्रौ अष्टवादनपर्यन्तं प्रत्येकं पञ्चत्रिंशन्मिनिटान्तराले मेट्रोसेवा उपलब्धा भविष्यति। सम्प्रति अस्मिन् मार्गे केवलम् एकस्य मेट्रोयानस्य एव सञ्चालनं भविष्यति।
मलाहीपकडीस्थानकात् बैरियाआईएसबीटीस्थानकपर्यन्तं यात्रायाः कृते त्रिंशद्रूप्यकाणि यात्राशुल्कं निर्धारितम् अस्ति, यत् सम्प्रति अस्य मार्गस्य अधिकतमं शुल्कम् अस्ति। अनेन विस्तारेण विशेषतः कङ्कडबाग राजेन्द्रनगर तथा समीपवर्तिक्षेत्रेषु निवसतां जनानां महती सुविधा भविष्यति।
मुख्यमन्त्रिणः आगमनं दृष्ट्वा मलाहीपकडीमेट्रोस्थानके व्यापकाः सुरक्षाप्रबन्धाः कृताः आसन्। उद्घाटनात् पूर्वं स्थानकं शोभनरीत्या अलङ्कृतम् आसीत्। अनेन विस्तारेण पटनामेट्रो भूतनाथात् अग्रे गत्वा कङ्कडबाग राजेन्द्रनगर इत्यादिषु प्रमुखावासीयप्रदेशेषु स्वस्य सम्पर्कं अधिकं सुदृढं करिष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani