Enter your Email Address to subscribe to our newsletters


ब्यावर-जयपुरम्, ०२ जुलाईमासः (हि.स.)। राजस्थानस्य मुख्यमन्त्री भजनलाल-शर्मा गुरुवासरे ब्यावर-जनपदस्य देवमाली-ग्रामे स्थिते भगवत: देवनारायणस्य मन्दिरे दर्शनं कृत्वा प्रदेशस्य सुख-समृद्ध्यै प्रार्थनाम् अकरोत्। ततः सः कृषकस्य रामलाल-गुर्जरस्य गृहम् अगच्छत् तथा तस्य परिवारजनैः सह सौहार्दपूर्णं साक्षात्कारम् अकरोत्, तैः सह चायपानमपि अकरोत्। अस्मिन् अवसरे देवमाली-ग्रामपञ्चायतस्य प्रशासक-समितेः सदस्यैः सह अपि संवादम् अकरोत्।
मुख्यमन्त्री ग्रामस्य विद्यालयीय-छात्रैः तेषां परिवारजनैश्च सह शिक्षाविषये सूचनाम् अलभत तथा गुणवत्तापूर्ण-शिक्षायाः उपलब्धतायै जनपदाधिकारीं आवश्यक-निर्देशान् अददात्। सः बालिका-शिक्षायाः महत्त्वम् उद्घोष्य अवदत् यत् विद्यालय-परित्यागस्य स्थितिः न उत्पद्येत तथा नामाङ्कनं प्रोत्साह्येत। सः जनपद-प्रशासनाय ग्रामे चलदूरवाणी-जालस्य समस्यायाः शीघ्र-समाधानाय निर्देशान् अददात्। सहैव मन्दिरपर्यन्तं रज्जुमार्ग-निर्माणस्य सम्भावनानाम् अन्वेषणाय अपि निर्दिष्टवान्। सः अवदत् यत् प्रधानमन्त्री-नरेन्द्र-मोदिना प्रतिपादितस्य विकासोऽपि विरासत् अपि इति दृष्टिकोणस्य अनुरूपं देवमाली-ग्रामे विकास-कार्याणि सम्पादनीयानि।
मुख्यमन्त्री अवदत् यत् ग्रामस्य मूलस्वरूपं, सांस्कृतिक-धार्मिक-सम्पदा तथा प्राकृतिक-सौन्दर्यं संरक्ष्य सर्वाणि आवश्यक-कार्याणि शीघ्रतया प्रवर्तनीयानि। सः उक्तवान् यत् देवमाली-ग्रामस्य विशिष्ट-परिचयस्य परम्पराणां च संरक्षणम् अस्माकं प्राधान्यम् अस्ति। सः बालकेभ्यः चाकलेह-वितरणं कृत्वा तेषाम् उत्साहवर्धनम् अकरोत् तथा ग्रामीणैः सह आत्मीय-संवादम् अकरोत्। सः स्थानीय-जनप्रतिनिधीन् जनपद-प्रशासनस्य अधिकारिणश्च निर्देशितवान् यत् ग्रामीणानाम् आवश्यकतानां समये समये सूचनां गृहीत्वा तासां त्वरित-प्रभावी-पूर्तिः सुनिश्चितीक्रियताम्, येन सर्वेभ्यः मूलभूत-सुविधानां लाभः प्राप्येत।
मुख्यमन्त्री देवमाली-स्थिते नमो-उपवने वीबीजी-राम-जी-योजना-अन्तर्गतं वृक्षारोपण-कार्यस्य उद्घाटनं वृद्धया प्रेमदेव्याः कराभ्यां कारितवान्। अस्मिन् अवसरे सः पीपल-वृक्षस्य रोपणं कृत्वा पर्यावरण-संरक्षणस्य सन्देशम् अददात्। वृक्षारोपणाय विद्यालयीय-छात्रेभ्यः मुख्यमन्त्री-वृक्षारोपण-महाभियानस्य प्रशस्ति-पत्राणि अपि समर्पितवान्।
अस्मिन् अवसरे सामाजिक-न्याय-अधिकारिता-मन्त्री अविनाश-गहलोतः, गृहराज्यमन्त्री जवाहरसिंह-बेढम्, विधायकः विरेन्द्रसिंह-कानावतः, अन्ये जनप्रतिनिधयः, जनपद-प्रशासनस्य अधिकारिणः तथा बहुसंख्यकाः ग्रामीणाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan