त्रिपुरा-राज्यस्य मुख्यमन्त्रिणः अभिनन्दनम् उपमुख्यमन्त्रिणा कृतम्, विविधविषयेषु चर्चा जाता
भोपालनगरम्, ०२ जुलाईमासः (हि.स.)। त्रिपुरा-राज्यस्य मुख्यमन्त्री डॉ.माणिक-साहा इत्यस्य उपमुख्यमन्त्री राजेन्द्र-शुक्लेन गुरुवासरे राजधानी-भोपालस्थिते निवास-कार्यालये अभिनन्दनं कृतम्। त्रिपुरा-राज्यस्य मुख्यमन्त्रिणः डॉ.माणिक-साहा तथा उपमुख्यमन्त्रि
त्रिपुरा के मुख्यमंत्री डॉ. माणिक साहा का मप्र के उप मुख्यमंत्री राजेन्द्र शुक्ल ने किया अभिनंदन


त्रिपुरा के मुख्यमंत्री डॉ. माणिक साहा का मप्र के उप मुख्यमंत्री राजेन्द्र शुक्ल ने किया अभिनंदन


भोपालनगरम्, ०२ जुलाईमासः (हि.स.)। त्रिपुरा-राज्यस्य मुख्यमन्त्री डॉ.माणिक-साहा इत्यस्य उपमुख्यमन्त्री राजेन्द्र-शुक्लेन गुरुवासरे राजधानी-भोपालस्थिते निवास-कार्यालये अभिनन्दनं कृतम्। त्रिपुरा-राज्यस्य मुख्यमन्त्रिणः डॉ.माणिक-साहा तथा उपमुख्यमन्त्रिणः राजेन्द्र-शुक्लस्य मध्ये विविधेषु समसामयिक-विषयेषु स्वास्थ्य-चिकित्सा-शिक्षाक्षेत्रे नवाचारेषु च विस्तृता चर्चा अभवत्।

अस्मिन्नवसरे त्रिपुरा-राज्यस्य मुख्य-मन्त्रिणः धर्मपत्नी स्वप्ना-साहा अपि उपस्थितासीत्। मुख्यमन्त्री डॉ.माणिक-साहा अधुना मध्यप्रदेशस्य प्रवासे वर्तते। सः भोपाले आयोजिते अष्टाविंशतितमे एओएमएसआई-मध्यावधि-अधिवेशने तथा चतुर्दशे एओएमएसआई-स्नातकोत्तर-अधिवेशने मुख्यातिथिरूपेण सहभागितां करिष्यति।

एसोसिएशन-ऑफ-ओरल-एण्ड-मैक्सिलोफेशियल-सर्जन्स-ऑफ-इण्डिया, मध्यप्रदेश-राज्य-चैप्टर तथा पीपुल्स-विश्वविद्यालयस्य संयुक्त-तत्त्वावधाने एतत् राष्ट्रीयं सम्मेलनं जुलाईमासस्य २ तः ४ दिनाङ्कपर्यन्तं पीपुल्स-विश्वविद्यालय-परिसरे आयोज्यते। सम्मेलनस्य मूलविषयः अस्ति— “क्रिएटिङ्ग अ होल्सम सर्जन”, अर्थात् “समग्र-शल्यचिकित्सकस्य निर्माणम्।”

एतत् सम्मेलनं मुख-हनु-अस्थि-शल्यचिकित्सा-क्षेत्रस्य प्रतिष्ठितं राष्ट्रीयं शैक्षणिकम् आयोजनम् अस्ति, यस्मिन् देश-विदेशेभ्यः प्रख्याताः विशेषज्ञाः, वरिष्ठ-चिकित्सकाः, चिकित्साशिक्षकाः, अनुसन्धानकर्तारः तथा स्नातकोत्तर-विद्यार्थिनः सहभागितां करिष्यन्ति। सम्मेलने नवीनतम-वैज्ञानिक-अनुसन्धानानां, आधुनिक-प्रौद्योगिकीनां, जटिल-शल्यचिकित्सा-प्रक्रियाणां तथा चिकित्सा-शिक्षायाः विविध-आयामानां विषये विचार-विमर्शः भविष्यति।

Hindusthan Samachar / Divya Ranjan