इतिहासस्य पृष्ठेषु ०३ जुलाईमासः - हिन्दी-चलचित्र-जगतः ‘जानी’ इति विख्यातः राजकुमारः लोकात् प्रयातः
भारतीय-चलचित्र-जगतः इतिहासे ०३ जुलाई-दिनाङ्कः महानायकस्य राजकुमारस्य पुण्यतिथिरूपेण स्मर्यते। १९९६ तमे वर्षे अस्मिन्नेव दिने हिन्दी-चलचित्र-जगतः अस्य दिग्गज-अभिनेतुः निधनम् अभवत्। स्वस्य गम्भीर-स्वरेण, प्रभावशालिना व्यक्तित्वेन तथा अद्वितीयया संवाद
फिल्म अभिनेता राजकुमार। फोटो -  फाइल


भारतीय-चलचित्र-जगतः इतिहासे ०३ जुलाई-दिनाङ्कः महानायकस्य राजकुमारस्य पुण्यतिथिरूपेण स्मर्यते। १९९६ तमे वर्षे अस्मिन्नेव दिने हिन्दी-चलचित्र-जगतः अस्य दिग्गज-अभिनेतुः निधनम् अभवत्। स्वस्य गम्भीर-स्वरेण, प्रभावशालिना व्यक्तित्वेन तथा अद्वितीयया संवाद-प्रस्तुत्या राजकुमारः हिन्दी-चलच्चित्र-जगति स्वीय-परिचयं निर्मितवान्, यं प्रेक्षकाः अद्यापि स्मरन्ति।

१९२६ तमे वर्षे अक्तूबर-मासस्य ०८ दिनाङ्के तत्कालीन-बलूचिस्तान-प्रदेशे तस्य जन्म अभवत्। तस्य वास्तविकं नाम कुलभूषण-पण्डितः आसीत्। चलचित्र-जगति प्रवेशात् पूर्वं सः मुम्बई-आरक्षक-विभागे उपनिरीक्षक-पदे कार्यरतः आसीत्। अभिनये तस्य अभिरुचिः तम् चलचित्र-जगत् प्रति आनयत्। १९५२ तमे वर्षे ‘रङ्गीली’ इति चलचित्रेण सः स्वस्य अभिनय-जीवनस्य प्रारम्भम् अकरोत्।

यद्यपि तस्मै वास्तविकः यशः ‘वक्त’ (१९६५), ‘हमराज’, ‘हीर-रांझा’, ‘पाकीज़ा’, ‘कर्मयोगी’, ‘मरते दम तक’, ‘सौदागर’ तथा ‘तिरङ्गा’ इत्यादिभिः चलचित्रैः प्राप्तः। ‘तिरङ्गा’ इति चलच्चित्रे तस्य “जानी...” इति प्रसिद्धः संवादः अद्यापि प्रेक्षकाणां मध्ये अत्यन्तं लोकप्रियः अस्ति तथा तस्य विशिष्ट-परिचयः जातः।

राजकुमारः स्वाभिनये गाम्भीर्यस्य, शालीनतायाः तथा प्रभावशालिन्याः संवाद-शैल्याः अद्भुतं समन्वयं प्रदर्शितवान्। तेन सः हिन्दी-चलच्चित्र-जगतः विशिष्टतमेषु अभिनेतृषु परिगणितः। १९९६ तमे वर्षे जुलाई-मासस्य ०३ दिनाङ्के तस्य अन्त्येष्टिः सम्पन्ना, किन्तु तेन अभिनीतानि पात्राणि तस्य संवादाश्च अद्यापि भारतीय-चलच्चित्र-जगतः स्वर्णिम-अध्यायस्य अविभाज्याङ्गानि सन्ति।

महत्त्वपूर्ण-घटनाचक्राणि

१७२० — स्वीडन-देशः डेनमार्क-देशेन सह शान्ति-सन्ध्यै हस्ताक्षरम् अकरोत्।१७६० — मराठा-सेनया देहली-नगरम् अधिकृतम्।१७७८ — प्रशा-देशः ऑस्ट्रिया-देशस्य विरुद्धं युद्धस्य घोषणाम् अकरोत्।१८७६ — मांटनीग्रो-देशः तुर्की-देशस्य विरुद्धं युद्धम् उद्घोषितवान्।१८८४ — डाउ-जोन्स-स्टॉक-एक्सचेञ्जेन प्रथमः स्टॉक-सूचकाङ्कः प्रकाशितः।१९०८ — ब्रिटिश-सर्वकारेण बालगङ्गाधर-तिलकः गृहीतः।१९४७ — सोवियत-संघः मार्शल-योजनायां सहभागित्वं कर्तुं निराकृतवान्।१९९२ — ब्राजील-देशस्य रियो-डी-जनेरो-नगरे पृथ्वी-सम्मेलनस्य शुभारम्भः अभवत्।१९९६ — हिन्दी-चलचित्र-जगतः प्रसिद्ध-अभिनेता राजकुमारस्य निधनम् अभवत्। स्वीयया अद्वितीयया संवाद-प्रस्तुत्या सः रजतपटे स्वस्य विशिष्टं स्थानं निर्मितवान्।१९९९ — कुवैत-देशे पञ्चाशत्-सदस्यीय-संसदीय-निर्वाचनं सम्पन्नम्।२००० — लाइसेनिया-करासे फिजी-देशस्य अन्तरिम-प्रधानमन्त्री नियुक्तः।२००४ — रूस-देशस्य मारिया-शारापोवा विम्बलडन-महिला-एकल-प्रतियोगितायाः विजेत्री अभवत्।२००५ — महेश-भूपतिः मेरी-पियर्स-च विंबलडन-मिश्रित-युगल-उपाधिं विजितवन्तौ।२००६ — भारतीय-क्रिकेट-दलेन पञ्चत्रिंशद्वर्षाणां अनन्तरं कैरेबियाई-द्वीपेषु प्रथमवारं विजयः प्राप्तः।२००६ — स्पेन-देशेन भारतः विश्वस्य तृतीय-बृहत्तम-अर्थव्यवस्था भविष्यतीति आशा व्यक्ता।२००७ — विवादास्पद-लेखकः सलमान-रुश्दी स्वपत्नी पद्म-लक्ष्म्याः सह विवाह-विच्छेदस्य घोषणाम् अकरोत्।२००८ — न्यूयार्क-नगरे दलित-सम्मेलनस्य शुभारम्भः अभवत्।२०१७ — अचल-कुमार-ज्योतिः भारतस्य मुख्य-निर्वाचन-आयुक्तः नियुक्तः।२०१८ — मलेशिया-देशस्य भूतपूर्व-प्रधानमन्त्री नजीब-रज्जाकः गृहीतः।

जन्म

१६१६ — शाह-शुजा — मुगल-सम्राटः शाहजहानस्य पुत्रः।१८८३ — फ्रांज-काफ्का — महान् लेखकः।१८८६ — रामचन्द्र-दत्तात्रेय-रानाडे — दर्शनशास्त्रस्य प्रसिद्धः विद्वान्, इलाहाबाद-विश्वविद्यालयस्य दर्शन-विभागस्य अध्यक्षः।१८९२ — हबीब-उर-रहमान-लुधियानवी — भारतीय-स्वातन्त्र्य-संग्राम-सेनानी।१८९७ — हंसा-मेहता — भारतस्य प्रसिद्धा समाजसेविका, स्वातन्त्र्य-सेनान्या तथा शिक्षाविदुषी।१९४१ — अदूर-गोपालकृष्णन् — मलयालम-चलचित्र-जगतः भारतस्य च श्रेष्ठेषु चलचित्र-निर्मातृषु अन्यतमः।१९५१ — रिचर्ड-हैडली — न्यूजीलैण्ड-देशस्य महान् तीव्र-गोलक-क्षेपकः।१९५२ — रोहिण्टन-मिस्त्री — प्रख्यातः भारतीय-कनाडीय-उपन्यासकारः।१९६२ — टॉम-हैङ्क्स: — अमेरिकी-अभिनेता।१९६९ — दिगेन्द्र-सिंहः — महावीर-चक्रेण सम्मानितः भारतीय-वीर-सैनिकः।१९७१ — जूलियन-असांजे — विकीलीक्स-संस्थायाः संस्थापकः।१९७९ — आरती-सिंह-राव: — भारतीया लक्ष्यभेदक:।

निधनम्

१९४८ — मोहम्मद-उस्मानः — भारतीय-सेनायाः वरिष्ठ-अधिकारी, भारत-पाकिस्तानयोः प्रथम-युद्धे (१९४७–४८) वीरगतिं प्राप्तः।१९८२ — केदार-पाण्डेयः — भारतीय-राष्ट्रीय-काङ्ग्रेस-पक्षस्य राजनीतिज्ञः तथा बिहार-राज्यस्य भूतपूर्व-मुख्यमन्त्री।१९८९ — आन्द्रेई-ग्रोमिको — सोवियत-संघस्य भूतपूर्व-राष्ट्रपतिः।१९९६ — राजकुमारः — हिन्दी-चलचित्र-जगतः प्रसिद्ध-अभिनेता।१९९९ — मनोज-कुमार-पाण्डेयः — परमवीर-चक्रेण सम्मानितः भारतीय-वीर-सैनिकः।२०१५ — योगेश-कुमार-सभरवालः — भारतस्य सर्वोच्च-न्यायालयस्य षट्त्रिंशत्तमः भूतपूर्व-मुख्य-न्यायाधीशः।२०१९ — सुदर्शन-अग्रवालः — उत्तराखण्ड-, उत्तरप्रदेश- तथा सिक्किम-राज्यानां भूतपूर्व-राज्यपालः।२०२० — सरोज-खान: — भारतस्य प्रसिद्धा नृत्य-निर्देशिका।

Hindusthan Samachar / अंशु गुप्ता