Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालम्, 02 जुलाईमासः (हि.स.)। जिलाचिकित्सालये नियुक्तः विशेषज्ञवरिष्ठदन्तशल्यचिकित्सकः डा शशाङ्क उनियालः उत्कृष्टचिकित्सासेवायाः जनसेवायाश्च कृते रोटरी क्लब श्रीनगरेण सम्मानितः। एषः सम्मानः तेन बहुवर्षेभ्यः समर्पितभावेन कृतानां कार्याणां समाजस्य प्रति च तस्य निस्वार्थसेवायाः प्रतीकः अस्ति।
डा शशाङ्क उनियालः विगतद्वादशाधिकवर्षेभ्यः पौडीगढवालजनपदस्य पर्वतीयप्रदेशेषु जिलाचिकित्सालयस्य माध्यमेन स्वीयाः चिकित्सासेवाः प्रददाति। दुर्गमप्रदेशेषु निवसन् तेन सहस्रशः रोगिणां सफलतया उपचारः कृतः तथा च तेषां कृते आधुनिकाः गुणवत्तायुक्ताः दन्तचिकित्सासेवाः उपलब्धाः कारिताः। तस्य प्रयत्नैः दूरवर्तिक्षेत्रेषु निवसतां बहूनां जनानां उत्तममौखिकस्वास्थ्यस्य लाभः प्राप्तः।
सम्प्रति विशेषज्ञदन्तशल्यचिकित्सकरूपेण कार्यरतः डा उनियालः राष्ट्रियमौखिकस्वास्थ्यकार्यक्रमस्य, एनपीसीडीसीएस, एनटीसीपी तथा अन्येषां जनस्वास्थ्यकार्यक्रमाणां सफलक्रियान्वयने महत्त्वपूर्णां भूमिकां निर्व्यूढवान्। तेन अनेकेषां दन्तस्वास्थ्यशिविराणाम् आयोजनं कृत्वा ग्रामीणप्रदेशेषु मौखिकस्वास्थ्यस्य प्रति जनजागरूकतायाः प्रशंसनीयं कार्यं कृतम्।
डा उनियालेन उन्नतदन्तप्रत्यारोपणचिकित्सायाः विशेषप्रशिक्षणं प्राप्तम्। तेन दन्तप्रत्यारोपणे, सम्पूर्णमुखपुनर्वासे तथा जटिलप्रोस्थोडोन्टिकचिकित्साक्षेत्रे व्यापकं कार्यं कृतम्। तेन सम्पन्नैः सफलचिकित्सोपचारैः सहस्रशः रोगिणः नूतनम् आत्मविश्वासं उत्तमां जीवनगुणवत्तां च प्राप्तवन्तः। शिक्षणस्य अनुसन्धानस्य च क्षेत्रे अपि तस्य महत्त्वपूर्णं योगदानम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani