Enter your Email Address to subscribe to our newsletters

- केंद्रीय राज्य मंत्री तोखन साहूः एवं उप मुख्यमंत्री अरूण सावः सम्मिलिष्यते
बिलासपुरम् 02जुलाईमासः (हि. स.) ।विकसितभारत रोजगार आजीविकानिश्चयमिशन ग्रामीण इति कार्यक्रमस्य वीबी जी राम जी तथा जिलास्तरीयजनसम्मेलनकार्यक्रमस्य आयोजनं केन्द्रीयराज्यमन्त्री तोखनसाहोः मुख्यातिथ्ये अद्य गुरुवासरे प्रातः एकादशवादनात् जलसंसाधनविभागस्य प्रार्थनाभवने भविष्यति। कार्यक्रमस्य अध्यक्षतां उपमुख्यमन्त्री अरुणसावः करिष्यति। अस्मिन् कार्यक्रमे पञ्चायतग्रामीणविकासमन्त्री शिवराजसिंहचौहानः आभासीयमाध्यमेन सहभागित्वं करिष्यति।
धरमलालकौशिकः धर्मजीतसिंहः सुशान्तशुक्लः अटलश्रीवास्तवः दिलीपलहरिया जिलापञ्चायताध्यक्षः राजेशसूर्यवंशी च अस्मिन् अवसरे उपस्थिताः भविष्यन्ति।
जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारी सन्दीपअग्रवालः अवदत् यत् अस्य कार्यक्रमस्य अन्तर्गतं जनपदस्य सर्वासु जनपदपञ्चायतासु तथा षट्चत्वारिंशदधिकचतुःशत ग्रामपञ्चायतासु एककाले आयोजनानि भविष्यन्ति। अस्मिन् अवसरे मिशनस्य राष्ट्रीयशुभारम्भस्य प्रत्यक्षप्रसारणं प्रदर्शयिष्यते। तथा च योजनायाः उद्देश्यानां रोजगारस्य आजीविकाया अवसराणां विविधप्रावधानानां च विस्तृतविवरणं सामान्यजनाय प्रदास्यते।
--------
Hindusthan Samachar / Dheeraj Maithani