Enter your Email Address to subscribe to our newsletters

अररियानगरम्, ०३ जुलाईमासः (हि.स.)। साहित्यकारस्य पद्मश्री-सम्मानेन सम्मानितस्य फणीश्वरनाथ-रेणु-महोदयस्य जीवनवृत्तान्तः शीघ्रमेव रूप्यपटे प्रदर्शितः भविष्यति। एतद्विषये सांसदः प्रदीपकुमारसिंहः गुरुवासरे प्रेस-क्लब-भवने आयोजितायां पत्रकार-वार्तायां सूचनां दत्त्वा उक्तवान् यत् एषा सीमाञ्चल-प्रदेशवासिनां बिहार-राज्यस्य जनानां च कृते गौरवस्य विषयः अस्ति।
सः अवदत् यत् हिन्दी-साहित्यस्य महान् कथाकारः पद्मश्री-फणीश्वरनाथ-रेणु-महोदयस्य जीवनस्य व्यक्तित्वस्य साहित्यिक-योगदानस्य च आधारेण चलचित्र-निर्माणस्य प्रयत्न: आरब्ध: अस्ति। एतत् चलच्चित्रं नूतनवंशं रेणु-महोदयस्य साहित्येन विचारैः जीवन-दर्शनेन च परिचाययिष्यति, अस्माकं मृत्तिकायाः संस्कृतेः च प्रभावशालिनं माध्यमं भविष्यति।
सांसदः अवदत् यत् चलच्चित्र-निर्माणस्य उद्देश्येन मुम्बई-नगरात् आगतौ प्रसिद्धौ चलचित्र-निर्माता-निर्देशकः फूलसिंहः तस्य दलं च सम्प्रति सीमाञ्चल-प्रदेशस्य भ्रमणं कुर्वन्ति। ते रेणु-महोदयस्य जीवनेन सम्बद्धानां स्थानानां, तस्य साहित्यस्य पृष्ठभूमेः, स्थानीय-संस्कृतेः च अध्ययनं कुर्वन्ति, येन चलचित्रे तस्य व्यक्तित्वस्य कृतित्वस्य च यथार्थं प्रभावशालीं च चित्रणं कर्तुं शक्येत।
सः उक्तवान् यत् फणीश्वरनाथ-रेणुः स्वाभिः अमर-रचनाभिः ग्रामीण-भारतस्य, लोक-संस्कृतेः, सामाजिक-समरसतायाः मानवीय-संवेदनानां च वैश्विक-पटल उपरि प्रतिष्ठां स्थापितवान्। तस्य जीवनाधारितं एतत् चलच्चित्रं न केवलं तस्य साहित्यिक-परम्परां नूतनवंशाय प्रापयिष्यति, अपि तु अररिया, फारबिसगञ्ज, औराही-हिङ्गना तथा समग्र-सीमाञ्चल-प्रदेशस्य सांस्कृतिक-पर्यटन-सम्भावनाभ्यः अपि नूतनाम् अभिज्ञानं प्रदास्यति।
सांसदः स्थानीय-साहित्यकारान्, बुद्धिजीविनः, सामाजिक-सङ्घटनानि, सामान्य-नागरिकान् च आह्वयत् यत् ते अस्मिन् ऐतिहासिके उपक्रमे स्वसहयोगं विचारांश्च प्रदद्यु:, येन चलच्चित्रस्य निर्माणं अधिकं प्रामाणिकं प्रभावशाली च भवेत्।
अन्ते सः मुम्बई-नगरात् आगतस्य निर्देशकस्य फूलसिंहस्य तस्य सम्पूर्ण-दलस्य च स्वागतं कृत्वा तेषां प्रति कृतज्ञतां व्यक्तवान् तथा विश्वासं प्रकटितवान् यत् एतत् चलचित्रं महत: साहित्यकारस्य फणीश्वरनाथ-रेणु-महोदयस्य साहित्यं विचारान् मानवीय-मूल्यानि च देशे विदेशे च प्रसारयितुं सशक्तं माध्यमं भविष्यति।
Hindusthan Samachar / Divya Ranjan