आईआईएम नूतने रायपुरे शासन व्यवस्थां दृढं कर्तुं भविष्यति द्विदिवसीयं चिंतनं शिविरम्
रायपुरम्, 02 जुलाईमासः (हि.स.)। छत्तीसगढराज्ये शासनव्यवस्थां अधिकं सुदृढां कर्तुं महत्त्वपूर्णं पदं क्रियमाणम् अस्ति। छत्तीसगढस्य सायसर्वकारेण नवरायपुरस्थे आईआईएम रायपुर संस्थाने आगामिन्योः चतुर्थपञ्चमजुलायदिनयोः द्विदिवसीयः आवासीयः चिन्तनशिविरः
आईआईएम नया रायपुर


रायपुरम्, 02 जुलाईमासः (हि.स.)।

छत्तीसगढराज्ये शासनव्यवस्थां अधिकं सुदृढां कर्तुं महत्त्वपूर्णं पदं क्रियमाणम् अस्ति। छत्तीसगढस्य सायसर्वकारेण नवरायपुरस्थे आईआईएम रायपुर संस्थाने आगामिन्योः चतुर्थपञ्चमजुलायदिनयोः द्विदिवसीयः आवासीयः चिन्तनशिविरः ३.० आयोजयिष्यते। अस्मिन् शिविरे मुख्यमन्त्री विष्णुदेवसायः राज्यस्य समग्रं मन्त्रिमण्डलं च सहभागी भविष्यन्ति। अस्मिन् चिन्तनशिविरे तन्त्रज्ञाननवोन्मेषस्य विकासप्रशासनस्य च विषये विस्तृतविमर्शः भविष्यति, येन परिवर्तमानस्य तन्त्रज्ञानपरिवेशस्य अनुरूपं शासनं अधिकं प्रभावकरं कर्तुं शक्येत। अस्य प्रमुखः उद्देशः मन्त्रिणां प्रशासनिककार्यप्रणालीं अधिकदक्षां आधुनिकां जनकेन्द्रितां च कर्तुम् अस्ति। शिविरस्य अवधौ नीतिनिर्माणस्य सुशासनस्य तन्त्रज्ञाननवोन्मेषस्य राज्यविकासस्य च विविधविषयेषु देशस्य प्रतिष्ठिताः विशेषज्ञाः मन्त्रिणः मार्गदर्शयिष्यन्ति। द्विदिनात्मकस्मिन् शिविरे सर्वकारस्य अद्यावधिप्राप्तानां उपलब्धीनां समालोचना, समुपस्थितानां परिस्थितीनां समीक्षा, भविष्यस्य प्राथमिकतानां निर्धारणं च भविष्यति। विभागानां मध्ये उत्तमसमन्वयस्य योजनानां च प्रभावी कार्यान्वयनस्य विषये विशेषः बलः प्रदास्यते। विशेषज्ञैः सह संवादस्य माध्यमेन मन्त्रिभ्यः नेतृत्वक्षमतायाः परिणामाभिमुखकार्यशैल्याः च प्रशिक्षणं प्रदास्यते, येन राज्यस्य विकासाय नवीनः कार्यमार्गः सिद्धः भविष्यति। अस्मिन् शिविरे मन्त्रिणां मार्गदर्शनार्थं देशस्य बहवः विख्याताः नीतिनिर्मातारः विषयविशेषज्ञाः शिक्षाविदः च उपस्थिताः भविष्यन्ति। अस्मात् पूर्वमपि आईआईएम रायपुर संस्थाने जूनमासे २०२५ तमे वर्षे चिन्तनशिविरः २.० तथा मईमासे २०२४ तमे वर्षे प्रथमः चिन्तनशिविरः सफलतया आयोजितः आसीत्।

Hindusthan Samachar / Dheeraj Maithani