Enter your Email Address to subscribe to our newsletters

नवदेहली, ०२ जुलाईमासः (हि.स.)। भारत-जापानदेशौ गुरुवासरे आर्थिक-सुरक्षा, ऊर्जा-स्थैर्य, कृत्रिम-बुद्धिमत्ता, प्रौद्योगिकी तथा नवाचार-क्षेत्रेषु व्यापक-सहकार्यं कर्तुं सम्मतौ। अद्य उभयदेशयोः मध्ये षोडश-बिन्दुषु सहमतिर्जाता। तेषु आर्थिक-सुरक्षायाः संयुक्त-घोषणापत्रम्, कृत्रिम-बुद्धिमत्ता-क्षेत्रे सहकार्यविषयकं संयुक्त-वक्तव्यम् तथा ऊर्जा-स्थैर्यविषयकं संयुक्त-वक्तव्यं प्रमुखतया अन्तर्भवतः।
प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदेहल्यां हैदराबाद-हाउस-इति-स्थले स्वसमकक्षया सनाए-तकाइची-महोदयया सह षोडशतमे भारत-जापान-वार्षिक-शिखर-सम्भाषणे सहभागिताम् अकरोत्। वार्तानन्तरं उभौ नेतारौ संयुक्त-वक्तव्यं प्रदत्तवन्तौ, यस्मिन् प्रधानमन्त्री मोदी तकाइची-महोदयां कनीयसी भगिनी इति सम्बोधितवान्।
विदेश-मन्त्रालयस्य प्रवक्त्रा उक्तं यत् अस्मिन् अवसरे भारत-जापान-सम्बन्धस्य सर्वेषु पक्षेषु व्यापक-विमर्शः अभवत्। तेषु वाणिज्य-निवेशौ, आर्थिक-सुरक्षा, ऊर्जा, उद्भवन-प्रौद्योगिक्यः, रक्षा तथा जन-समुदाय-आदानप्रदानम् अन्तर्भूतम्। उभाभ्यां पारस्परिक-हित-सम्बद्धेषु प्रादेशिक-वैश्विक-विषयेष्वपि विचार-विमर्शः कृतः। अस्यां वार्तायां द्विपक्षीय-सम्बन्धानां प्रमुख-प्राथमिकतासु दृढ-प्रगतिरभवत्।
प्रवक्त्रा उक्तं यत् उभयपक्षाभ्यां त्रयः महत्त्वपूर्ण-तथ्यानि स्वीकृतानि— आर्थिक-सुरक्षायाः संयुक्त-घोषणापत्रम्, कृत्रिम-बुद्धिमत्ता-क्षेत्रे सहकार्यविषयकं संयुक्त-वक्तव्यम् तथा ऊर्जा-स्थैर्यविषयकं संयुक्त-वक्तव्यम्। उभौ नेतारौ आर्थिक-सुरक्षा, स्वच्छ-ऊर्जा, महत्त्वपूर्ण-प्रौद्योगिकी तथा अनुसंधान-विकास-सम्बद्धानां प्रमुख-सन्धि-ज्ञापनानां अन्येषां च सम्झौतानाम् आदानप्रदानम् अपि अवलोकितवन्तौ। उभयपक्षौ राजनयिक-सम्बन्धानां स्थापनायाः पञ्चसप्ततितम-वर्षग्रन्थी-समारोहस्य उपलक्ष्ये आयोज्य-मानानां कार्यक्रमाणां सूच्यां सहमतिं प्रकटितवन्तौ।
प्रधानमन्त्री मोदी संयुक्त-वक्तव्ये अवदत् यत् अग्रिम-दश-वर्षेषु भारतं जापानदेशात् दश-ट्रिलियन-येन-परिमित-निवेशम् आकर्षयितुं तथा भारते कार्यरतानां जापानीय-निर्माणीनां सङ्ख्यां द्विगुणयितुं लक्ष्यं निर्धारयति।
वार्तानन्तरं पत्रकार-सम्मेलने विदेश-सचिवः विक्रम-मिस्री अवदत् यत् उभौ नेतारौ हिन्द-प्रशान्त-प्रदेशे तस्मात् परे च शान्तेः, समृद्धेः, स्थैर्यस्य च सुनिश्चितीकरणे विशेष-रणनीतिक-वैश्विक-सहभागिताया: भूमिकाम् अपि स्वीकृतवन्तौ।
तेन उक्तं यत् अद्यतन-सभाभ्यः अनेकानि महत्त्वपूर्णानि परिणामानि निष्पन्नानि, ये मुख्यतया त्रिषु क्षेत्रेषु अन्तर्भवन्ति— आर्थिक-सुरक्षा, ऊर्जा-स्थैर्यम् तथा प्रौद्योगिकी-नवाचारौ। वार्तायां व्यापार-निवेशौ, आर्थिक-सुरक्षा, रक्षा, आपूर्ति-शृङ्खला-सुदृढीकरणम्, प्रौद्योगिकी, नवाचारः तथा जन-समुदाय-आदान-प्रदानम् इत्यादिषु विषयेषु विस्तृतः विचार-विमर्शः अभवत्। उभौ नेतारौ हिन्द-प्रशान्त-प्रदेशे तस्मात् परे च शान्तेः, समृद्धेः, स्थैर्यस्य च संवर्धने विशेष-रणनीतिक-वैश्विक-सहभागिताया: महत्त्वम् अङ्गीकृतवन्तौ।
विदेश-मन्त्रालयेन प्रकाशिते संयुक्त-वक्तव्ये उक्तं यत् बहुपक्षीय-मञ्चे उभौ प्रधानमन्त्री संयुक्त-राष्ट्र-सुरक्षा-परिषदि त्वरित-सुधारार्थम् अन्यैः जी-४-देशैः सह कार्यं कर्तुं स्वप्रतिबद्धतां पुनरुक्तवन्तौ। अस्मिन् स्थायी-अस्थायी-श्रेण्योः विस्तारः अपि अन्तर्भवति, यस्य समर्थनं अधिकांश-सदस्य-देशैः क्रियते, यथा वर्तमान-भूराजनैतिक-वास्तविकताः सम्यक् प्रतिबिम्बिताः भवेयुः।
उभौ प्रधानमन्त्री आतंकवादस्य हिंसक-उग्रवादस्य च सर्वेषां रूपाणां स्पष्टां तीव्रां च निन्दाम् अकुरुताम्। अस्मिन् पाकिस्तानदेश: प्रवर्तमानः सीमापार-आतङ्कवादः अपि अन्तर्भवति। ताभ्यां पहलगामे सम्पन्नस्य आतङ्कवादी-आक्रमणस्य घोर-निन्दा अपि कृता।
उभौ प्रधानमन्त्री पूर्व-चीन-सागरस्य दक्षिण-चीन-सागरस्य च स्थितिं प्रति गम्भीरां चिन्तां प्रकटितवन्तौ। ताभ्यां नौसञ्चालनस्य वायुयान-सञ्चालनस्य च स्वतन्त्रतां सुरक्षां च संकटापन्नां कुर्वन्त्याः कस्यापि एकपक्षीय-क्रियायाः तथा बलप्रयोगेन प्रभावेन वा यथास्थितिं परिवर्तयितुं प्रयत्नस्य दृढः विरोधः पुनरुक्तः।
प्रधानमन्त्री सनाए-तकाइची भारत-यात्रायां प्राप्तस्य आतिथ्यस्य कृते प्रधानमन्त्री नरेन्द्रमोदी-महोदयाय धन्यवादं प्रदाय अग्रिम-वर्षे आयोज्यमानस्य सप्तदश-भारत-जापान-वार्षिक-शिखर-सम्मेलनस्य कृते जापानदेशम् आगन्तुं निमन्त्रणम् अददात्। तत् निमन्त्रणं प्रधानमन्त्री मोदी सहर्षम् अङ्गीकृतवान्।
Hindusthan Samachar / Divya Ranjan