Enter your Email Address to subscribe to our newsletters


नवदेहली, ०२ जुलाईमासः (हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी तथा जापानदेशस्य प्रधानमन्त्री सनाए-तकाइची गुरुवासरे हैदराबाद-हाउस-भवने प्रतिनिधिमण्डल-स्तरीयां वार्ताम् अकुरुताम्। उभाभ्यां नेतृभ्यां व्यापारः, निवेशः, रक्षा, प्रौद्योगिकी, हिन्द-प्रशान्त-प्रदेशे सहयोगः, तथा विविधेषु द्विपक्षीय-वैश्विकविषयेषु विस्तृता चर्चा कृता। अस्याः वार्तायाः उद्देश्यः भारत-जापानयोः विशिष्ट-रणनैतिक-वैश्विक-सहभागिता अधिकं सुदृढां कर्तुम् आसीत्।
एतस्मात् पूर्वं राष्ट्रपतिभवनस्य प्राङ्गणे जापानदेशस्य प्रधानमन्त्री सनाए-तकाइची-इत्यस्याः औपचारिकस्वागतं सम्पन्नम्। प्रधानमन्त्री नरेन्द्रमोदिनः उपस्थितौ तस्यै औपचारिकः गार्ड-ऑफ-ऑनर प्रदत्तः। स्वागतसमारोहे प्रधानमन्त्री मोदी स्वमन्त्रिमण्डलस्य सहकर्मिभिः अन्यैः गण्यमान्यैश्च सह तस्याः परिचयं कारितवान्। समारोहे त्रयाणां सेनानां सञ्चलन-दलानि सैन्य-वाद्यवृन्दं च स्वप्रस्तुतिं प्रदर्शितवन्ति।
विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः सामाजिक-माध्यमे एक्स इत्यत्र प्रकाशितसन्देशे उक्तवान् यत् विश्वास-साझा-मूल्य-रणनीतिक-समन्वयेषु आधारितां सहभागिताम् अग्रे नेतुं प्रधानमन्त्री मोदी हैदराबाद-हाउस-भवने जापानदेशस्य प्रधानमन्त्री सनाए-तकाइची-इत्यस्याः हार्दिकं स्वागतम् अकरोत्।
राष्ट्रपतिभवने सम्पन्नस्य स्वागत-समारोहस्य विषये अन्यस्मिन् सन्देशे जायसवालः अवदत् यत् भारत-जापानयोः विशिष्ट-सहभागिता अधिकं सुदृढा क्रियते। साझा-मूल्येषु विश्वासे च आधारितेयं सहभागिता भविष्यस्य दिशां निर्धारयिष्यति।
जापानदेशस्य प्रधानमन्त्री सनाए-तकाइची प्रधानमन्त्री नरेन्द्रमोदिनः निमन्त्रणेन षोडशतमे भारत-जापान-वार्षिक-शिखर-सम्मेलने सहभागितां कर्तुं जुलैमासस्य १ तः ३ दिनाङ्कपर्यन्तं भारतस्य यात्रायाम् अस्ति। एषा तस्याः भारतस्य प्रथमा आधिकारिकयात्रा अस्ति। औपचारिकस्वागतानन्तरं सा विदेशमन्त्री डॉ.एस.जयशङ्करम् केन्द्रीयमन्त्री-मण्डलस्य अन्यान् सदस्यांश्च अपि अमिलत्।
सनाए-तकाइची बुधवासरे त्रिदिवसीययात्रार्थं नवदेहलीम् आगता आसीत्। प्रधानमन्त्री नरेन्द्रमोदी सामाजिक-माध्यमे एक्स इत्यत्र तस्याः स्वागतं कृत्वा उक्तवान् यत् तस्याः प्रथम-भारतयात्रायां आतिथ्यं कर्तुं प्रसन्नता वर्तते। उभौ देशौ विशिष्ट-रणनीतिक-वैश्विक-सहभागिता अधिकं सुदृढां कर्तुं विविधविषयेषु व्यापकां चर्चां करिष्यतः तथा हिन्द-प्रशान्त-प्रदेशे ततः परं च शान्तेः, स्थैर्यस्य, समृद्धेश्च संवर्धनाय संयुक्तरूपेण कार्यं निरन्तरं करिष्यतः।
Hindusthan Samachar / Divya Ranjan