निरन्तर-परिश्रमेण सकारात्मक-चिन्तनेन च किमपि लक्ष्यं साधयितुं शक्यते : राज्यपालः
राञ्चीनगरम्, ०२ जुलाईमासः (हि.स.)। राज्यपालः सन्तोषकुमार-गङ्गवारः अवदत् यत् निरन्तर-परिश्रमेण, दृढ-सङ्कल्पेन तथा सकारात्मक-चिन्तनेन किमपि लक्ष्यं साधयितुं शक्यते। तेन उक्तं यत् सम्मानः केवलं कस्यचित् व्यक्तेः न भवति, अपितु तस्य माध्यमेन परिश्रमस्य,
राज्यपाल कार्यक्रम को संबोधित करते हुए


कार्यक्रम का शुभारंभ करते हुए राज्यपाल


कार्यक्रम में मौजूद लोग


राञ्चीनगरम्, ०२ जुलाईमासः (हि.स.)। राज्यपालः सन्तोषकुमार-गङ्गवारः अवदत् यत् निरन्तर-परिश्रमेण, दृढ-सङ्कल्पेन तथा सकारात्मक-चिन्तनेन किमपि लक्ष्यं साधयितुं शक्यते। तेन उक्तं यत् सम्मानः केवलं कस्यचित् व्यक्तेः न भवति, अपितु तस्य माध्यमेन परिश्रमस्य, प्रामाणिकतायाः, अनुशासनस्य, सेवा-भावस्य तथा समर्पणस्य इत्यादीनां जीवन-मूल्यानामपि सम्मानः भवति। तेन विविध-क्षेत्रेषु उत्कृष्ट-योगदानं दत्तवतां सर्वेषां सम्मानित-व्यक्तित्वानां अभिनन्दनं कृत्वा उक्तं यत् तेषाम् उपलब्धयः समाजस्य, विशेषतः यूनां, प्रेरणास्रोतः सन्ति।

राज्यपालः गुरुवासरे यूथ-हॉस्टल्स-एसोसिएशन-ऑफ-इण्डिया-झारखण्ड-राज्य-शाखया राञ्चीनगरे आर्यभट्ट-सभागारे आयोजिते सप्तमे झारखण्ड-एक्सीलेंस-पुरस्कार-समारोहे सम्बोधनम् अकरोत्।

राज्यपालः अवदत् यत् यूनः कस्यापि राष्ट्रस्य महान् शक्तिः सन्ति तथा विकसित-भारतस्य निर्माणे तेषां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। तेन यूनः आहूताः यत् ते स्वजीवने केवलं सफलतां प्राप्तुं न, अपितु उत्तम-मानवः प्रेरणादायी-व्यक्तित्वं च भवितुं सङ्कल्पं कुर्वन्तु।

राज्यपालः अवदत् यत् यूथ-हॉस्टल्स-एसोसिएशन-ऑफ-इण्डिया इव संस्थाः यूनेषु साहसिक-क्रियाकलापानां, नेतृत्व-क्षमतायाः, दल-भावनायाः, पर्यावरण-संरक्षणस्य, राष्ट्रिय-एकतायाः तथा सामाजिक-उत्तरदायित्वस्य भावनां विकसितुं महत्त्वपूर्णं कार्यं कुर्वन्ति। एतादृशाः प्रयत्नाः यूनां सर्वाङ्गीण-व्यक्तित्व-विकासे समाजस्य राष्ट्रस्य च सशक्त-निर्माणे महत्त्वपूर्णं योगदानं ददति।

तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य नेतृत्वे देशः ‘विकसित-भारत २०४७’ इति सङ्कल्पेन अग्रे गच्छति। यूनः नवाचारे, कौशल-विकासे, स्टार्टअप-उद्यमेषु, क्रीडासु, स्वास्थ्य-सुदृढीकरणे तथा आत्मनिर्भर-भारतस्य निर्माणे सक्रियां भूमिकां निर्वोढुं निरन्तरं प्रेर्यन्ते।

तेन सर्वाभ्यः सम्मानित-विभूतिभ्यः शुभकामनाः प्रदाय विश्वासः व्यक्तीकृतः यत् ते स्वैः उत्कृष्ट-कार्यैः समाजाय राष्ट्राय च निरन्तरं नूतनां दिशं प्रदास्यन्ति।

अस्मिन्नवसरे रक्षा-राज्यमन्त्री सञ्जय-सेठः अवदत् यत् ‘एक्सीलेंस-अवार्डः’ केवलं सम्मानं न, अपितु उत्कृष्ट-कार्यस्य प्रेरणा अस्ति। तेन उक्तं यत् व्यक्तिः यस्मिन् क्षेत्रे कार्यं करोति, तस्मिन् उत्कृष्टतामेव स्वलक्ष्यं कुर्यात्।

तेन अपि उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयेन ‘विकसित-भारत २०४७’ इति लक्ष्यं निर्धारितम्, यस्य सिद्ध्यर्थं समाजस्य प्रत्येक-क्षेत्रस्य जनानां सक्रिय-सहभागिता अपेक्षिता अस्ति। तेन उक्तं यत् अद्य भारतस्य यूनः विश्वस्य अनेकासु प्रतिष्ठितासु बहुराष्ट्रीय-निर्माणीषु स्वप्रतिभां प्रदर्शयन्ति।

अस्मिन्नवसरे राज्यपालस्य अपर-मुख्य-सचिवः तथा यूथ-हॉस्टल्स-एसोसिएशन-ऑफ-इण्डिया-अध्यक्षः डाॅ.नितिन-कुलकर्णी अवदत् यत् एषा संस्था प्रतिवर्षम् एतादृशस्य सम्मान-समारोहस्य आयोजनं करोति।

तेन उक्तं यत् संस्थायाः उद्देश्यं यूनः राष्ट्रहितेन राष्ट्रनिर्माणेन च सम्बद्धान् कर्तुम् अस्ति। अद्य लेखन-कला-क्रीडा-शिक्षा-समाजसेवा-तथा अन्येषु विविध-क्षेत्रेषु विशिष्टां परिचितिं स्थापितवतां प्रतिभाशालिनां व्यक्तित्वानां सम्मानः क्रियते। एतादृशानि सम्मानानि समाजे सकारात्मक-प्रेरणां प्रसारयन्ति तथा यूनः उत्कृष्ट-कार्याय प्रोत्साहयन्ति।

समारोहे लाइफटाइम-अचीवमेण्ट-पुरस्कारेण प्रो.गोपाल-पाठकः सम्मानितः। एतदतिरिक्तं साहित्य-क्षेत्रे पङ्कज-दुबे, अभिनय-सिनेमा-क्षेत्रे राजेश-कुमारः, समाजसेवा-सामुदायिक-विकास-जननेतृत्व-क्षेत्रे रौशनी-खलखो, क्रीडा-उद्घोषण-क्षेत्रे ऋद्धिमा-पाठकः, स्वास्थ्य-सेवा-क्षेत्रे डाॅ. प्रेम, नाट्य-प्रदर्शन-कला-क्षेत्रे राकेश-रमणः, पत्रकारिता-क्षेत्रे सञ्जय-मिश्रः, शिक्षा-क्षेत्रे प्रो.ए.के.चटोराजः, अन्तर्जाल-एजुकेटर-पुरस्कारेण साक्षी-जैना, हरित-ऊर्जा-क्षेत्रे सुनील-आर्यन्तः, क्रीडा-क्षेत्रे शुभालक्ष्मी-शर्मा तथा एल.पलटोदीप-सिंहः, कार्यक्रम-योजना-क्षेत्रे प्रशान्त-सूरजः, अभिनयस्य इमर्जिङ्ग-टैलेण्ट्-श्रेण्यां राजू-तिर्की, पत्रकारितायाः इमर्जिङ्ग-टैलेण्ट्-श्रेण्यां वैशाली-राजः, चलचित्र-निर्माण-क्षेत्रे इम्तियाज-अली च सम्मानिताः।

अस्मिन्नवसरे विधायकः सी.पी.सिंहः, विभिन्न-विश्वविद्यालयानां कुलपतयः, शिक्षाविदः, समाजसेविनः, क्रीडकाः, यूनः तथा बहुसंख्यकाः अन्ये जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan