Enter your Email Address to subscribe to our newsletters

पश्चिमी सिंहभूमः, 02 जुलाईमासः (हि.स.)।पश्चिमीसिंहभूमजनपदस्य चाईबासास्थितस्य सदरचिकित्सालयेन कुटुम्बनियोजनसेवासु नूतनां पहलं कृत्वा गुरुवासरे प्रथमवारं आधुनिकगर्भनिरोधकप्रतिरोपणस्य इम्प्लानॉन एनएक्सटी इति प्रक्रियायाः सफलतया सम्पादनं कृतम्। अस्याः सुविधायाः प्रारम्भेण जनपदस्य महिलाभ्यः अधुना दीर्घकालपर्यन्तं प्रभाविणः आधुनिकगर्भनिरोधकोपायस्य लाभः स्थानीयस्तरे एव उपलब्धः भविष्यति।
एषा प्रक्रिया सदरचिकित्सालयस्य चिकित्सकया डा पौलीनामुण्डू तथा तस्याः चिकित्सकदलस्य साहाय्येन सफलतया सम्पन्ना। चिकित्सालयप्रशासनेन उक्तं यत् एषा गर्भनिरोधकप्रविधिः सुरक्षितेषु प्रभाविषु दीर्घकालिकसंरक्षणप्रदासु आधुनिककुटुम्बनियोजनपद्धतिषु अन्यतमा अस्ति।
चिकित्सकैः उक्तं यत् अस्याः प्रक्रियायाः अन्तर्गतं महिलायाः उपरिबाहोः त्वचायाः अधः दियासलाईशलाकासदृशः लघुः लचीलः प्रतिरोपकः स्थाप्यते। अयं प्रतिरोपकः शनैः शनैः हार्मोनद्रव्यं विसृजति, येन प्रायः त्रिवर्षपर्यन्तं गर्भधारणस्य सम्भावना अत्यल्पा भवति। यदि महिला भविष्ये सन्तानप्राप्तेः योजना करोति तर्हि प्रशिक्षितचिकित्सकाः एनं सुलभतया निष्कासयितुं शक्नुवन्ति। प्रतिरोपकस्य निष्कासनानन्तरं महिला सामान्यरूपेण पुनः गर्भधारणं कर्तुं समर्था भवति।
डा पौलीनामुण्डू उक्तवती यत् एषा सुविधा विशेषतः ग्रामीणनगरीयक्षेत्रयोः ताभ्यः महिलाभ्यः लाभप्रदा भविष्यति, याः सुरक्षितं सुविधाजनकं दीर्घकालप्रभाविणं कुटुम्बनियोजनस्य विकल्पम् इच्छन्ति। तया उक्तं यत् एषा लघु सुरक्षिता च चिकित्सीयप्रक्रिया अस्ति, या प्रशिक्षितस्वास्थ्यकर्मिणां पर्यवेक्षणे अल्पसमये सम्पाद्यते।
सदरचिकित्सालयप्रशासनेन उक्तं यत् अस्याः सेवायाः प्रारम्भात् परं पश्चिमीसिंहभूमजनपदस्य महिलाभ्यः आधुनिकगर्भनिरोधकप्रतिरोपणस्य सुविधा निःशुल्करूपेण स्वजनपदे एव उपलब्धा भविष्यति। अनेन एतस्याः सेवायाः कृते ताभिः अन्यनगराणि निजीचिकित्सालयानि वा प्रति आश्रयः न कर्तव्यः भविष्यति।
चिकित्सालयस्य वरिष्ठचिकित्सकाः प्रशासनिकाधिकारिणः च अस्याः उपलब्धेः निमित्तं डा पौलीनामुण्डू तथा तस्याः समग्रचिकित्सकदलस्य अभिनन्दनं कृत्वा विश्वासं व्यक्तवन्तः यत् आगामिषु कालेषु अपि चाईबासास्थिते सदरचिकित्सालये आधुनिकानां गुणवत्तापूर्णानां स्वास्थ्यसेवानां निरन्तरं विस्तारः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani