Enter your Email Address to subscribe to our newsletters


पश्चिमी सिंहभूमः, 02 जुलाईमासः (हि.स.)।
तमिलनाडुराज्यस्य तिरुवल्लूरजनपदे अमोनियावायुरिसावघटनया प्रभाविताः पश्चिमीसिंहभूमजनपदस्य चतुर्दश प्रवासिश्रमिकाः गुरुवासरे सुरक्षितरूपेण स्वगृहराज्यं झारखण्डं प्रत्यागतवन्तः। चक्रधरपुररेलस्थानके आगमनसमये जिलाप्रशासनस्य पक्षतः सर्वेषां श्रमिकाणां स्वागतं कृतम् तथा तेषां कुशलक्षेमस्य जानकारी गृहीता।
मुख्यमन्त्री हेमन्तसोरेणस्य निर्देशानुसारं झारखण्डशासनस्य श्रमनियोजनप्रशिक्षणकौशलविकासविभागेन पश्चिमीसिंहभूमजिलाप्रशासनेन च श्रमिकाणां सुरक्षितप्रत्यागमनार्थं निरन्तरं समन्वयः कृतः। सर्वे श्रमिकाः रेलमार्गेण राउरकेलामार्गेण चक्रधरपुरम् आगतवन्तः, यत्र प्रशासनिकाधिकारिणां दलं पूर्वमेव उपस्थितम् आसीत्।
रेलस्थानके श्रमिकेभ्यः आवश्यकसाहाय्यं प्रदत्तम्। ततः अनन्तरं तान् स्वस्वग्रामान् प्रेषयितुं वाहनव्यवस्था कृता। सहैव प्रत्येकस्मै श्रमिकाय खाद्यसामग्रीयुक्तः भोजनसञ्चयः अपि प्रदत्तः, येन गृहम् आगत्य तेषां कस्यापि तात्कालिकासुविधायाः सामना न भवेत्।
उल्लेखनीयम् अस्ति यत् तमिलनाडुराज्यस्य तिरुवल्लूरस्थितायाम् एकस्याम् औद्योगिकसंस्थायां हालैव अमोनियावायोः रिसावः अभवत्। घटनायाः अनन्तरं तत्र कार्यरतानां झारखण्डराज्यस्य श्रमिकाणां सुरक्षाविषये राज्यशासनेन त्वरितपहलः कृता। मुख्यमन्त्रिणः निर्देशानुसारं सम्बन्धितविभागैः जिलाप्रशासनेन च तमिलनाडुराज्यस्य अधिकारिभिः सह निरन्तरः सम्पर्कः स्थापितः, यस्य परिणामस्वरूपं पश्चिमीसिंहभूमजनपदस्य सर्वे चतुर्दश श्रमिकाः सुरक्षितरूपेण स्वगृहं प्रत्यागन्तुं सफलाः अभवन्।
---------------
Hindusthan Samachar / Dheeraj Maithani