Enter your Email Address to subscribe to our newsletters


भोपालनगरम्, ०२ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य बैतूल-मण्डलस्य भैंसदेही-तहसीले स्थितं कुकरू इति नाम स्थानं प्राकृतिकसौन्दर्यस्य, सघनहरितिमायाः, शान्तवातावरणस्य च कारणेन प्रसिद्धम् एकम् अद्याप्यस्पृष्टं रमणीयं पर्यटनस्थलम् अस्ति। समुद्रतलात् प्रायः ३,६६८ पादोन्नतेः उपरि स्थितमिदं पर्वतीयक्षेत्रं वर्षाकाले मेघैः, नीहारेण, सघनवनैः, हरितिमया च सर्वतः आच्छादितं भवति। अत्र अदना-नद्याः प्रवाहः, मिश्रितवनानि, तैलीय-सागवान-वृक्षाणां विशालसमूहाश्च अस्य प्रदेशस्य प्रमुखाः प्राकृतिकविशेषताः सन्ति।
जनसम्पर्काधिकारिणी जूहीश्रीवास्तवः गुरुवासरे अवदत् यत् वर्षपर्यन्तं रमणीयजलवायोः कारणेन कुकरू प्रकृतिप्रेमिभ्यः, पदयात्रारुचिभ्यः, द्विचक्रवाहनयात्राप्रियजनानां कृते च उत्कृष्टं पर्यटनस्थलम् अस्ति। अत्र स्थिते सनराइज-पॉइण्ट तथा सनसेट्-पॉइण्ट इति प्रमुखे आकर्षणे स्तः। कुकरू स्वस्य उत्कृष्ट-काफी-उत्पादनस्य अतिरिक्तं कोदो-कुटकी, आमलकम्, मधु, हरितकी, विभीतकी, श्वेतमूसली, भिलवा इत्यादीनां वनोपजानामपि प्रसिद्धम् अस्ति। स्थूलधान्यैः निर्मितानि पारम्परिक-भोजनानि, वनोपजैः काष्ठेन च निर्मितानि हस्तशिल्पानि अत्रत्य सांस्कृतिक-आर्थिक-परिचयस्य महत्त्वपूर्णमङ्गं सन्ति।
काफी-उद्यानैः प्राप्तः विशिष्टः परिचयः
सा अवदत् यत् कुकरू-खामला-प्रदेशः ऐतिहासिक-काफी-उद्यानानां कृते अपि सुप्रसिद्धः अस्ति। अत्र १९४४ तमे वर्षे काफी-कृषेः प्रारम्भः अभवत्, येन अस्य प्रदेशस्य विशिष्टा ख्यातिः अभवत्। देशस्य केवलं कतिपयेषु प्रदेशेषु एव उच्चकोट्याः काफी-कृषिः क्रियते। कुकरू-प्रदेशे प्रायः ११० एकर-परिमिते क्षेत्रे उत्कृष्टजातीय-अरेबिका-काफी-उद्यानम् अस्ति, यस्य दश-एकर-क्षेत्रे काफी-कृषिः सम्पद्यते। मध्यप्रदेश-ईको-पर्यटन-विकास-मण्डलेन वनविभागेन च एतेषां काफी-उद्यानानां संरक्षण-संवर्धन-कार्यं क्रियते।
ईको-पर्यटनस्य पर्यटनाधारभूत-संरचनायाश्च विस्तारः भविष्यति
मुख्यमन्त्री डॉ.मोहनयादवः अचिरात् कुकरू-प्रदेशस्य भ्रमणकाले एतत् मध्यप्रदेशस्य प्रमुखेषु पर्यटनस्थलेषु विकसितुं बह्वीः महत्त्वपूर्णाः घोषणाः कृतवान्। प्रायः पञ्चदश-कोटि-रूप्यकाणां व्ययेन कुकरू, चिखलदरा, मुक्तागिरि, मेलघाट इत्येतान् प्रदेशान् संयोज्य एकीकृतः पर्यटन-परिपथः विकसितः भविष्यति। अस्याः परियोजनायाः अन्तर्गतं ईको-पर्यटनस्य विस्तारः, सनराइज-पॉइण्ट तथा सनसेट्-पॉइण्ट इत्यनयोः उन्नयनम्, आधुनिकसुविधायुक्तस्य ईको-रिसॉर्ट-इत्यस्य विकासः, पर्यटनाधारभूत-संरचनायाः विस्तारः, पदयात्रामार्गाणां, प्रकृतिपथानां, अन्यासां साहसिकक्रीडाणां च प्रोत्साहनं भविष्यति।
जनजातीयसमुदायानां कृते रोजगार-स्वरोजगारावसराः
मुख्यमन्त्री डॉ.यादवः स्थानीयजन-जातीयसमुदायान् पर्यटनक्रियाकलापैः सह सम्बद्धान् कर्तुं होम-स्टे-योजनायाः प्रारम्भस्य घोषणां कृतवान्। एतेषां होम-स्टे-गृहाणां सञ्चालनं मध्यप्रदेश-पर्यटन-विकास-निगमस्य कार्यपद्धतेः अनुरूपं भविष्यति, तेषां अन्तर्जाल-आरक्षणसुविधा मध्यप्रदेश-पर्यटन-विभागेन प्रदास्यते। अनेन स्थानीयजनानां कृते रोजगारस्य स्वरोजगारस्य च नूतनाः अवसराः सृज्यन्ते। तदतिरिक्तं पर्यटकाणां जनजातीयसंस्कृतेः स्थानीयजीवनशैल्याश्च समीपतः परिचयस्य सुअवसरः अपि भविष्यति।
कुकरू-प्रदेशं प्रति सुगमः मार्गः
भोपालतः कुकरूप्रदेशस्य दूरी प्रायः २७० किलोमीटरमिता अस्ति, बैतूलतः च प्रायः ९० किलोमीटरमिता। रेलमार्गेण भोपाल-बैतूल-नगरयोः मध्ये नियमिताः रेलयानसेवाः उपलब्धाः सन्ति, यासु भोपाल–नागपुर-वन्दे-भारत-एक्स्प्रेस, छत्तीसगढ़-एक्स्प्रेस अन्यानि प्रमुख-रेलयानानि च सन्ति। बैतूलतः कुकरूपर्यन्तं कारयानैः अन्यैः स्थानीयवाहनैश्च सुगमतया गन्तुं शक्यते। स्थलमार्गेण भोपालतः बैतूलं, ततः शाहपुरमार्गेण कुकरूप्रदेशः प्राप्यते। अन्तिमः पर्वतीयमार्गः मनोहरैः प्राकृतिकदृश्यैः परिपूर्णः अस्ति।
प्रकृतेः, संस्कृतेः, ईको-पर्यटनस्य च अद्वितीयः संगमः
कुकरू-प्रदेशः प्राकृतिकसौन्दर्यस्य, काफी-उद्यानानां, जनजातीयसंस्कृतेः, ईको-पर्यटनस्य च समन्वितम् अनुभवं पर्यटकेभ्यः प्रददाति। अत्र ईको-पर्यटन-केन्द्रस्य अन्तर्गतं पर्यटकेभ्यः विश्रामगृहस्य सुविधा उपलब्धा अस्ति तथा मध्यप्रदेश-ईको-पर्यटन-विकास-मण्डलेन प्रशिक्षिताः कर्मचारीणः आवश्यकाः सेवाः प्रददति। वर्षाकाले कुकरोः हरितिमा मनोहरं प्राकृतिकवातावरणं च अस्य प्रदेशस्य मध्यप्रदेशस्य प्रमुखेषु प्रकृति-पर्यटन-स्थलेषु विशिष्टं स्थानं प्रददाति।
Hindusthan Samachar / Divya Ranjan