मध्यप्रदेशस्य नूतनं पर्यटनाकर्षणं जातं कुकरू—मेघानां, काफी-उद्यानानां हरितिमायाश्च अद्वितीयः संगमः
भोपालनगरम्, ०२ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य बैतूल-मण्डलस्य भैंसदेही-तहसीले स्थितं कुकरू इति नाम स्थानं प्राकृतिकसौन्दर्यस्य, सघनहरितिमायाः, शान्तवातावरणस्य च कारणेन प्रसिद्धम् एकम् अद्याप्यस्पृष्टं रमणीयं पर्यटनस्थलम् अस्ति। समुद्रतलात् प्रायः
मध्य प्रदेश के बैतूल जिले में स्थित कुकरू पर्यटन स्थल


मुख्यमंत्री डॉ. मोहन यादव ने हाल ही में कुकरू का भ्रमण किया


भोपालनगरम्, ०२ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य बैतूल-मण्डलस्य भैंसदेही-तहसीले स्थितं कुकरू इति नाम स्थानं प्राकृतिकसौन्दर्यस्य, सघनहरितिमायाः, शान्तवातावरणस्य च कारणेन प्रसिद्धम् एकम् अद्याप्यस्पृष्टं रमणीयं पर्यटनस्थलम् अस्ति। समुद्रतलात् प्रायः ३,६६८ पादोन्नतेः उपरि स्थितमिदं पर्वतीयक्षेत्रं वर्षाकाले मेघैः, नीहारेण, सघनवनैः, हरितिमया च सर्वतः आच्छादितं भवति। अत्र अदना-नद्याः प्रवाहः, मिश्रितवनानि, तैलीय-सागवान-वृक्षाणां विशालसमूहाश्च अस्य प्रदेशस्य प्रमुखाः प्राकृतिकविशेषताः सन्ति।

जनसम्पर्काधिकारिणी जूहीश्रीवास्तवः गुरुवासरे अवदत् यत् वर्षपर्यन्तं रमणीयजलवायोः कारणेन कुकरू प्रकृतिप्रेमिभ्यः, पदयात्रारुचिभ्यः, द्विचक्रवाहनयात्राप्रियजनानां कृते च उत्कृष्टं पर्यटनस्थलम् अस्ति। अत्र स्थिते सनराइज-पॉइण्ट तथा सनसेट्-पॉइण्ट इति प्रमुखे आकर्षणे स्तः। कुकरू स्वस्य उत्कृष्ट-काफी-उत्पादनस्य अतिरिक्तं कोदो-कुटकी, आमलकम्, मधु, हरितकी, विभीतकी, श्वेतमूसली, भिलवा इत्यादीनां वनोपजानामपि प्रसिद्धम् अस्ति। स्थूलधान्यैः निर्मितानि पारम्परिक-भोजनानि, वनोपजैः काष्ठेन च निर्मितानि हस्तशिल्पानि अत्रत्य सांस्कृतिक-आर्थिक-परिचयस्य महत्त्वपूर्णमङ्गं सन्ति।

काफी-उद्यानैः प्राप्तः विशिष्टः परिचयः

सा अवदत् यत् कुकरू-खामला-प्रदेशः ऐतिहासिक-काफी-उद्यानानां कृते अपि सुप्रसिद्धः अस्ति। अत्र १९४४ तमे वर्षे काफी-कृषेः प्रारम्भः अभवत्, येन अस्य प्रदेशस्य विशिष्टा ख्यातिः अभवत्। देशस्य केवलं कतिपयेषु प्रदेशेषु एव उच्चकोट्याः काफी-कृषिः क्रियते। कुकरू-प्रदेशे प्रायः ११० एकर-परिमिते क्षेत्रे उत्कृष्टजातीय-अरेबिका-काफी-उद्यानम् अस्ति, यस्य दश-एकर-क्षेत्रे काफी-कृषिः सम्पद्यते। मध्यप्रदेश-ईको-पर्यटन-विकास-मण्डलेन वनविभागेन च एतेषां काफी-उद्यानानां संरक्षण-संवर्धन-कार्यं क्रियते।

ईको-पर्यटनस्य पर्यटनाधारभूत-संरचनायाश्च विस्तारः भविष्यति

मुख्यमन्त्री डॉ.मोहनयादवः अचिरात् कुकरू-प्रदेशस्य भ्रमणकाले एतत् मध्यप्रदेशस्य प्रमुखेषु पर्यटनस्थलेषु विकसितुं बह्वीः महत्त्वपूर्णाः घोषणाः कृतवान्। प्रायः पञ्चदश-कोटि-रूप्यकाणां व्ययेन कुकरू, चिखलदरा, मुक्तागिरि, मेलघाट इत्येतान् प्रदेशान् संयोज्य एकीकृतः पर्यटन-परिपथः विकसितः भविष्यति। अस्याः परियोजनायाः अन्तर्गतं ईको-पर्यटनस्य विस्तारः, सनराइज-पॉइण्ट तथा सनसेट्-पॉइण्ट इत्यनयोः उन्नयनम्, आधुनिकसुविधायुक्तस्य ईको-रिसॉर्ट-इत्यस्य विकासः, पर्यटनाधारभूत-संरचनायाः विस्तारः, पदयात्रामार्गाणां, प्रकृतिपथानां, अन्यासां साहसिकक्रीडाणां च प्रोत्साहनं भविष्यति।

जनजातीयसमुदायानां कृते रोजगार-स्वरोजगारावसराः

मुख्यमन्त्री डॉ.यादवः स्थानीयजन-जातीयसमुदायान् पर्यटनक्रियाकलापैः सह सम्बद्धान् कर्तुं होम-स्टे-योजनायाः प्रारम्भस्य घोषणां कृतवान्। एतेषां होम-स्टे-गृहाणां सञ्चालनं मध्यप्रदेश-पर्यटन-विकास-निगमस्य कार्यपद्धतेः अनुरूपं भविष्यति, तेषां अन्तर्जाल-आरक्षणसुविधा मध्यप्रदेश-पर्यटन-विभागेन प्रदास्यते। अनेन स्थानीयजनानां कृते रोजगारस्य स्वरोजगारस्य च नूतनाः अवसराः सृज्यन्ते। तदतिरिक्तं पर्यटकाणां जनजातीयसंस्कृतेः स्थानीयजीवनशैल्याश्च समीपतः परिचयस्य सुअवसरः अपि भविष्यति।

कुकरू-प्रदेशं प्रति सुगमः मार्गः

भोपालतः कुकरूप्रदेशस्य दूरी प्रायः २७० किलोमीटरमिता अस्ति, बैतूलतः च प्रायः ९० किलोमीटरमिता। रेलमार्गेण भोपाल-बैतूल-नगरयोः मध्ये नियमिताः रेलयानसेवाः उपलब्धाः सन्ति, यासु भोपाल–नागपुर-वन्दे-भारत-एक्स्प्रेस, छत्तीसगढ़-एक्स्प्रेस अन्यानि प्रमुख-रेलयानानि च सन्ति। बैतूलतः कुकरूपर्यन्तं कारयानैः अन्यैः स्थानीयवाहनैश्च सुगमतया गन्तुं शक्यते। स्थलमार्गेण भोपालतः बैतूलं, ततः शाहपुरमार्गेण कुकरूप्रदेशः प्राप्यते। अन्तिमः पर्वतीयमार्गः मनोहरैः प्राकृतिकदृश्यैः परिपूर्णः अस्ति।

प्रकृतेः, संस्कृतेः, ईको-पर्यटनस्य च अद्वितीयः संगमः

कुकरू-प्रदेशः प्राकृतिकसौन्दर्यस्य, काफी-उद्यानानां, जनजातीयसंस्कृतेः, ईको-पर्यटनस्य च समन्वितम् अनुभवं पर्यटकेभ्यः प्रददाति। अत्र ईको-पर्यटन-केन्द्रस्य अन्तर्गतं पर्यटकेभ्यः विश्रामगृहस्य सुविधा उपलब्धा अस्ति तथा मध्यप्रदेश-ईको-पर्यटन-विकास-मण्डलेन प्रशिक्षिताः कर्मचारीणः आवश्यकाः सेवाः प्रददति। वर्षाकाले कुकरोः हरितिमा मनोहरं प्राकृतिकवातावरणं च अस्य प्रदेशस्य मध्यप्रदेशस्य प्रमुखेषु प्रकृति-पर्यटन-स्थलेषु विशिष्टं स्थानं प्रददाति।

Hindusthan Samachar / Divya Ranjan