जम्मू-कश्मीरस्य उप राज्यपाल सिन्हा 4,822 अमरनाथ तीर्थयात्रिभ्यः प्राक् गणःप्रस्थितः
जम्मूः, 02 जुलाईमासः (हि.स.)। श्रीअमरनाथवार्षिकयात्रा गुरुवासरे औपचारिकरूपेण प्रारब्धा। जम्मूकश्मीरस्य उपराज्यपालः मनोजसिन्हा कडकसुरक्षाव्यवस्थायाः मध्ये जम्मोः भगवतीनगरयात्रिनिवासात् तीर्थयात्रिणां प्रथमदलम् हरितध्वजप्रदर्शनेन प्रेषितवान्। अधिका
श्री अमरनाथ यात्रा के लिए जम्मू से 4,822 तीर्थयात्रियों का पहला जत्था रवाना, उपराज्यपाल ने दिखाई हरि झंडी


जम्मूः, 02 जुलाईमासः (हि.स.)।

श्रीअमरनाथवार्षिकयात्रा गुरुवासरे औपचारिकरूपेण प्रारब्धा। जम्मूकश्मीरस्य उपराज्यपालः मनोजसिन्हा कडकसुरक्षाव्यवस्थायाः मध्ये जम्मोः भगवतीनगरयात्रिनिवासात् तीर्थयात्रिणां प्रथमदलम् हरितध्वजप्रदर्शनेन प्रेषितवान्। अधिकारिभिः उक्तं यत् समग्रतया ४८२२ तीर्थयात्रिणः २५९ वाहनानां काफिलेन जम्मूतः बालटालं पहलगामं च स्थितयोः द्वयोः आधारशिविरयोः प्रति प्रस्थिताः।

तेषु २५१० तीर्थयात्रिणः परम्परागतमार्गेण पहलगाममार्गम् अनुसृत्य यात्रां कुर्वन्ति, २३१२ तीर्थयात्रिणः लघुतरं बालटालमार्गं स्वीकृतवन्तः। प्रथमदले ३७०७ पुरुषतीर्थयात्रिणः, ८१६ महिलातीर्थयात्रिण्यः, १६ बालकाः, २४६ साधवः, ३७ साध्व्यः च सन्ति। काफिले १०६ यात्रिकायानानि, ३९ मध्यममोटरयानानि, १११ लघुमोटरयानानि, त्रीणि द्विचक्रवाहनानि च सन्ति।

अधिकारिभिः उक्तं यत् बालटालगामिकाफिलः प्रातः ६:१० वादने भगवतीनगरात् निर्गतः। ततः अनन्तरं पहलगामगामिकाफिलः प्रातः ६:३५ वादने प्रस्थितः। उभौ काफिलौ बहुस्तरीयसुरक्षाव्यवस्थायाः अन्तर्गतं सुरक्षाकर्मिणां पर्यवेक्षणेन नीतौ।

उपराज्यपालः मनोजसिन्हा तीर्थयात्रिभ्यः शुभकामनाः प्रदत्तवान् तथा उक्तवान् यत् यात्रां सुरक्षितां सुचारुं निर्विघ्नां च कर्तुं व्यापकव्यवस्थाः कृताः सन्ति। तेन उक्तं यत् यात्रिकाणां कृते पर्याप्तसुरक्षा आरोग्यसेवा स्वच्छता निवासव्यवस्था अन्याश्च आवश्यकसुविधाः उपलब्धाः कृताः सन्ति।

उपराज्यपालः मनोजसिन्हा बुधवासरे बाबाबर्फानीतीर्थयात्रिणां स्वागतार्थं तवीआरतीकार्यक्रमस्य प्रकाशध्वनिप्रदर्शनस्य च उद्घाटनं कृतवान्। अस्मिन् अवसरे तेन उक्तं यत् श्रद्धायाः अनुशासनस्य आध्यात्मिकजागरणस्य च एषा पवित्रयात्रा असंख्यपीढीनां प्रेरणास्रोतः अस्ति। तेन देशस्य सर्वेभ्यः श्रद्धालुभ्यः अस्याम् आध्यात्मिकयात्रायां सहभागित्वाय आमन्त्रणं प्रदत्तम्। तेन उक्तं यत् श्रीअमरनाथजीयात्रा दीर्घकालात् जीवन्तसूत्ररूपेण विविधभाषाणां संस्कृतीनां परम्पराणां च जनान् समानश्रद्धायाः सूत्रेण सम्बध्नाति।

आशा अस्ति यत् तीर्थयात्रिणः मध्याह्नपर्यन्तं कश्मीरोपत्यकां प्राप्स्यन्ति। ततः ते बालटालं नुनवानाधारशिविरं च गमिष्यन्ति। तत्र निर्धारितकार्यक्रमानुसारं पवित्रगुहामन्दिरस्य अग्रिमयात्रां प्रारप्स्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani