केंद्रीय महिला एवं बाल विकास मंत्रिणा अन्नपूर्णादेव्या सह मंत्री लक्ष्मी राजवाड़े अकरोत् सौजन्यमेलनम्
बस्तर संभागे योजनानां प्रभावी क्रियान्वयनं, पोषण सेवानां विस्तारे एवं महिला सशक्तिकरणे च विहिता सार्थक चर्चा रायपुरम्, 02 जुलाईमासः (हि.स.)। छत्तीसगढराज्यस्य महिला बालविकासमन्त्री लक्ष्मीराजवाडे नवदेहल्यां केन्द्रीयमहिला बालविकासमन्त्री अन्नप
केंद्रीय महिला एवं बाल विकास मंत्री अन्नपूर्णा देवी से मंत्री लक्ष्मी राजवाड़े ने की सौजन्य भेंट


केंद्रीय महिला एवं बाल विकास मंत्री अन्नपूर्णा देवी से मंत्री लक्ष्मी राजवाड़े ने की सौजन्य भेंट


बस्तर संभागे योजनानां प्रभावी क्रियान्वयनं, पोषण सेवानां विस्तारे एवं महिला सशक्तिकरणे च विहिता सार्थक चर्चा

रायपुरम्, 02 जुलाईमासः (हि.स.)।

छत्तीसगढराज्यस्य महिला बालविकासमन्त्री लक्ष्मीराजवाडे नवदेहल्यां केन्द्रीयमहिला बालविकासमन्त्री अन्नपूर्णादेवीं सौजन्यभेटां कृत्वा महिला बालविकाससम्बद्धेषु विविधेषु महत्त्वपूर्णविषयेषु विस्तृतां चर्चाम् अकरोत्।

अस्मिन् अवसरे मन्त्रिणी राजवाडे स्वस्य अद्यतनबस्तरसम्भागप्रवासस्य विवरणं निवेद्य तत्र कृतानां निरीक्षणानां जनसंवादकार्यक्रमाणां तथा स्थलीयस्तरे प्राप्तानां अनुभवानां निष्कर्षाणां च विषये केन्द्रीयमन्त्रिणम् अवगतवती। सा बस्तरस्य दूरस्थानां जनजातीयक्षेत्राणां मध्ये सञ्चालितानां योजनानां प्रगतिं तासां समुपस्थितपरिस्थितयः भविष्यसम्भावनाश्च अपि निवेदितवती।

उपवेशने महिला बालविकासविभागस्य विविधयोजनानां प्रभावीक्रियान्वयनम् दूरस्थप्रदेशेषु पोषणसेवानां सुदृढीकरणम् आङ्गनबाडीसेवानां विस्तारः मातृशिशुस्वास्थ्यसंवर्धनम् महिलानां सामाजिकार्थिकसशक्तीकरणम् तथा आगामिजनकल्याणकार्यक्रमाणां सफलसञ्चालनम् इत्यादिषु विषयेषु सकारात्मकसार्थका च चर्चा अभवत्।

मन्त्री लक्ष्मीराजवाडे अवदत् यत् केन्द्रीयमन्त्रिण्याः अन्नपूर्णादेव्याः मार्गदर्शनम् उपदेशाश्च प्रदेशे महिला बालविकासविभागस्य योजनाः अधिकप्रभाविन्यः समावेशिन्यः जनोन्मुख्यश्च कर्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति। तया विश्वासः व्यक्तीकृतः यत् केन्द्रराज्यसर्वकारयोः समन्वितप्रयत्नैः महिलानां बालकानां च समग्रविकासाय नूतना गतिः प्राप्स्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani