मध्यप्रदेशे विकसित-भारत-गारण्टी-रोजगार-आजीविका-अभियानस्य शुभारम्भः अद्य
भोपालनगरम्, ०२ जुलाईमासः (हि.स.)। मध्यप्रदेशे ग्रामीण-क्षेत्रेषु रोजगारस्य, आजीविका-संवर्धनस्य तथा स्थायि-ग्रामीण-परिसम्पत्तीनां निर्माणस्य नूतनां गतिं प्रदातुं केन्द्र-सर्वकारस्य महत्त्वाकाङ्क्षिण्याः विकसित-भारत-गारण्टी-रोजगार-आजीविका-अभियानस्य (
वीबी जी-राम जी (प्रतीकात्मक)


भोपालनगरम्, ०२ जुलाईमासः (हि.स.)। मध्यप्रदेशे ग्रामीण-क्षेत्रेषु रोजगारस्य, आजीविका-संवर्धनस्य तथा स्थायि-ग्रामीण-परिसम्पत्तीनां निर्माणस्य नूतनां गतिं प्रदातुं केन्द्र-सर्वकारस्य महत्त्वाकाङ्क्षिण्याः विकसित-भारत-गारण्टी-रोजगार-आजीविका-अभियानस्य (ग्रामीण) (वीबी-जी-राम-जी) प्रदेशव्यापी शुभारम्भः अद्य गुरुवासरे भविष्यति।

जनसम्पर्क-अधिकारिणी अनुभा-सिंह-महोदया अवदत् यत्, अस्मिन् अवसरे मध्यप्रदेशस्य सर्वेषु जनपदेषु जन-सम्मेलन-सहित-शुभारम्भ-कार्यक्रमाः आयोजयिष्यन्ते। एतेषु कार्यक्रमेषु जनप्रतिनिधयः, स्व-सहायता-समूहानां सदस्याः, श्रमिकाः, हितग्राहिणः, यूनः तथा स्थानीय-नागरिकाः सहभागित्वं करिष्यन्ति।

सा अवदत् यत् भारत-सर्वकारेण आयोजितस्य राष्ट्रिय-शुभारम्भ-कार्यक्रमस्य सर्वेषु जनपद-स्तरीय-कार्यक्रमेषु प्रत्यक्ष-प्रसारणं भविष्यति, येन उपस्थिताः नागरिकाः मिशनस्य उद्देश्यान् प्रमुख-प्रावधानानि च प्रत्यक्षतया ज्ञातुं शक्नुयुः। कार्यक्रमेषु मिशनस्य अन्तर्गतं स्वीकृतानां नवीन-विकास-कार्याणां शुभारम्भः करिष्यते। सहैव सूचना-शिक्षा-सञ्चार-गतिविधीनाम् अन्तर्गतं प्रदर्शिनी, विज्ञापनानि तथा जनजागरूकता-सामग्रीणां माध्यमेन अभियानस्य विशेषतानां व्यापकः प्रचार-प्रसारः भविष्यति। विविधेषु जनपदेषु स्थानीय-सफलता-कथानां तथा निर्मितानां सामुदायिक-परिसम्पत्तीनामपि प्रदर्शनं भविष्यति।

अस्मिन् अवसरे नागरिकेभ्यः अभियानस्य प्रमुख-प्रावधानानां, विशेषतः १२५-दिवसात्मक-रोजगार-गारण्टी, डिजिटल-कार्यप्रणाल्याः, पारदर्शी-प्रदान-प्रणाल्याः, प्रौद्योगिकी-आधारित-निरीक्षणस्य, सामाजिक-अङ्केक्षणस्य तथा विकेन्द्रीकृत-ग्राम-स्तरीय-योजना-निर्माणस्य विषये विस्तृता सूचना प्रदास्यते।

Hindusthan Samachar / अंशु गुप्ता