कोच्चीनगरे ‘सीफूड एक्स्पो भारत २०२६’ इत्यस्य अवसरे राष्ट्रिय-कौशल-ओलम्पियाड-इत्यस्य द्वितीयसंस्करणस्य समापनम्
नवदेहली, ०२ जुलाईमासः (हि.स.)। समुद्रीय-आहार-मूल्यवर्धनविषये राष्ट्रिय-कौशल-ओलम्पियाड-इत्यस्य द्वितीयसंस्करणस्य समापनसमारोहः बुधवासरे केरलराज्यस्य कोच्चीनगरे ‘सीफूड एक्स्पो भारत २०२६’ इत्यस्य अवसरे सम्पन्नः। समुद्रीय-उत्पाद-निर्यात-विकास-प्राधिकरणे
‘सीफूड एक्सपो भारत 2026’ का जारी फोटो


नवदेहली, ०२ जुलाईमासः (हि.स.)। समुद्रीय-आहार-मूल्यवर्धनविषये राष्ट्रिय-कौशल-ओलम्पियाड-इत्यस्य द्वितीयसंस्करणस्य समापनसमारोहः बुधवासरे केरलराज्यस्य कोच्चीनगरे ‘सीफूड एक्स्पो भारत २०२६’ इत्यस्य अवसरे सम्पन्नः। समुद्रीय-उत्पाद-निर्यात-विकास-प्राधिकरणेन आयोजिते अस्मिन् कार्यक्रमे विदेशीय-विपणानां कृते मूल्यवर्धित-समुद्रीय-आहार-उत्पादानां निर्माणे दश प्रशिक्षित-समुद्रीय-आहार-प्रसंस्करण-विशेषज्ञानां कौशलस्य प्रदर्शनम् अभवत्।

वाणिज्य-उद्योग-मन्त्रालयेन गुरुवासरे प्रकाशिते वक्तव्ये उक्तं यत् राष्ट्रिय-समुद्रीय-आहार-मूल्यवर्धन-कौशल-ओलम्पियाड-इत्यस्य द्वितीयसंस्करणस्य भव्यः अन्तिम-चरणः बुधवासरे कोच्चीनगरे ‘सीफूड एक्स्पो भारत २०२६’ इत्यस्य अवसरे आयोजितः। एमपीईडीए-संस्थायाः अस्मिन् प्रयत्ने समुद्रीय-आहार-प्रसंस्करण-क्षेत्रस्य दश प्रशिक्षिताः विशेषज्ञाः सहभागिनः अभवन्। ते मूल्यवर्धित-समुद्रीय-आहार-उत्पादानां निर्माणे स्वस्य पाक-कौशलं तकनीकी-प्रवीणतां च प्रदर्शितवन्तः। तीव्रस्पर्धायुक्ते अन्तिम-चरणे आन्ध्रप्रदेशस्य काकीनाडा-नगरस्थितायाः देवी फिशरीज लिमिटेड इति संस्थायाः पी.सूर्यभास्करः विजेतृत्वम् अलभत।

मन्त्रालयेन उक्तं यत् तमिलनाडुराज्यस्य तूतीकोरिन्-नगरस्थितायाः थेवा-एण्ड-कम्पनी इति संस्थायाः मुथुकुमारन् द्वितीयस्थानम् अलभत। पश्चिमबङ्गस्य कोलकातानगरस्थितायाः एसएस सीफूड्स प्राइवेट् लिमिटेड् इति संस्थायाः सागरिकासरदारः तृतीयस्थानम्, ओडिशाराज्यस्य भुवनेश्वरस्थितायाः सबरी फूड प्रोडक्ट्स् प्राइवेट् लिमिटेड् इति संस्थायाः बारासरानी जेना चतुर्थस्थानं प्राप्तवती।

वाणिज्य-मन्त्रालयेन उक्तं यत् विजेत्रिभ्यः एकलक्ष-रूप्यकाणां नगद-पुरस्कारः प्रदत्तः। द्वितीय-तृतीयस्थानयोः प्राप्त-कर्तृभ्यां क्रमशः पञ्चसप्ततिसहस्र-रूप्यकाणि तथा पञ्चाशत्सहस्र-रूप्यकाणि नगद-पुरस्काररूपेण प्रदत्तानि। चतुर्थ-स्थानप्राप्ताय प्रतिभागिन्यै पञ्चविंशति-सहस्र-रूप्यकाणां सान्त्वना-पुरस्कारः प्रदास्यते।

मन्त्रालयेन अवगतं कारितं यत् कार्यक्रमात् पूर्वं एमपीईडीए-संस्थया भारतस्य पूर्व-पश्चिम-समुद्रतटयोः समुद्रीय-आहार-मूल्यवर्धन-विषये पञ्चाशत् प्रशिक्षण-कार्यक्रमाः आयोजिताः। एतेषां प्रशिक्षण-कार्यक्रमाणां माध्यमेन समुद्रीय-आहार-प्रसंस्करण-क्षेत्रस्य द्विसहस्र-पञ्चशताधिकाः श्रमिकाः विशेषज्ञाश्च अन्ताराष्ट्रिय-विपणेषु अधिकमागधेषु समुद्रीय-आहार-उत्पादेषु प्रशिक्षणं प्राप्तवन्तः।

ओलम्पियाड-इत्यस्य क्षेत्रीय-चरणाः पश्चिम-समुद्रतट-प्रदेशस्य कृते मुम्बई-नगरे तथा पूर्व-समुद्रतट-प्रदेशस्य कृते विशाखापत्तन-नगरे आयोजिताः। जूनमासस्य त्रिंशत्तमे दिनाङ्के सम्पन्नासु एतासु क्षेत्रीय-प्रतियोगितासु सहभागिभ्यः दश अन्तिम-प्रतियोगिनः चयनिताः। अन्तिम-प्रतियोगितायां सहभागिभ्यः अन्ताराष्ट्रिय-विपणेषु अधिकमागधेषु षट् मूल्यवर्धित-समुद्रीय-आहार-उत्पादानां निर्माणस्य कार्यम् अर्पितम्। तेषु नोबाशी-श्रिम्पः, ब्रेडेड्-बटरफ्लाई-श्रिम्पः, कुक्ड-पील्ड-डिवेन्ड-टेल-ऑन-श्रिम्पः, मैरिनेटेड्श्रिम्पः स्क्यूअर्सः, ब्रेडेडस्क्विडरिङ्ग्सः तथा फिशफिलेट्सः इत्येते उत्पादाः अन्तर्भूताः आसन्।

एमपीईडीए-संस्थायाः अध्यक्षः पी.जवाहरः, निदेशकः डॉ.राममोहनः एम.के., सचिवः डॉ.गिबिन् कुमारः, संयुक्त-निदेशकः श्री अनिलकुमारः तथा कार्यक्रमस्य मुख्यातिथिः सीफूड् एक्स्पोर्टर्स एसोसिएशन ऑफ इण्डिया इत्यस्य मुख्यकार्यपालकाधिकारी डॉ.के.एन.राघवन् विजेतृभ्यः नगद-पुरस्कारान्, पदकानि, प्रमाणपत्राणि च प्रदत्तवन्तः।

एमपीईडीए-संस्थायाः अध्यक्षः पी.जवाहरः अवदत् यत् अयम् ओलम्पियाड सुदृढस्य वैश्विकस्तरे स्पर्धाक्षमस्य च समुद्रीय-आहार-क्षेत्रस्य निर्माणे महत्त्वपूर्णा उपलब्धिः अस्ति, यः अन्ताराष्ट्रिय-विपणानां परिवर्तमानानाम् अपेक्षानां पूर्तिं कर्तुं समर्थः भविष्यति। एमपीईडीए-संस्था गुणवत्तानिश्चयस्य, खाद्यसुरक्षायाः, प्रसंस्करणोत्कृष्टतायाः, कार्यबल-कौशल-विकासस्य, सतत-समुद्रीय-आहार-उत्पादनस्य तथा विश्वसनीय-आपूर्ति-शृङ्खलायाः सुदृढीकरणाय निरन्तरं प्रयतते।

सः पुनरपि अवदत् यत् इयम् ओलम्पियाडस्पर्धा भारतस्य समुद्रीय-आहार-निर्यात-तन्त्रस्य सुदृढीकरणाय महत्त्वपूर्णं मञ्चं प्रददाति। अस्मिन् कार्यक्रमे केन्द्र-सर्वकारस्य, राज्य-सर्वकाराणां च वरिष्ठ-अधिकारिणः, समुद्रीय-आहार-निर्यातकाः, अन्ताराष्ट्रिय-क्रेतारः, उद्योगजगतः प्रतिनिधयः, तकनीकी-विशेषज्ञाः तथा सीफूड एक्स्पो भारत २०२६ इत्यस्य प्रतिनिधयः सहभागिनः अभवन्।

Hindusthan Samachar / Divya Ranjan