सुनील बंसलः मनन चतुर्वेदिनो मैराथन पेंटिंग शोकार्यक्रमस्य प्रशंसाम्
नव दिल्ली, 02 जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री सुनीलबंसलः राजस्थानस्य सुप्रसिद्धायाः समाजसेविकायाः मननचतुर्वेद्याः मैराथनचित्रकला प्रदर्शनस्य प्रशंसां कृतवान्। मनना देहल्याः पालिकाबाजारस्थले चतुर्विंशतिघण्टापर्यन्तं निरन्त
नई दिल्ली में मैराथन पेंटिंग शो का आयोजन पालिका बाजार में किया गया। इसका समापन बुधवार को भाजपा नेता सुनील बंसल ने किया।


नव दिल्ली, 02 जुलाईमासः (हि.स.)।

भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री सुनीलबंसलः राजस्थानस्य सुप्रसिद्धायाः समाजसेविकायाः मननचतुर्वेद्याः मैराथनचित्रकला प्रदर्शनस्य प्रशंसां कृतवान्। मनना देहल्याः पालिकाबाजारस्थले चतुर्विंशतिघण्टापर्यन्तं निरन्तरं चित्रनिर्माणस्य अद्वितीयं लक्ष्यम् मङ्गलवासरे सफलतया पूर्णवती। बंसलः अस्य प्रदर्शनस्य समापनसमये उक्तवान् यत् समाजे एतादृशानां आयोजनानां आवश्यकता अधिकतया वर्तते।

तेन उक्तं यत् समाजस्य कार्यं समाजस्य सहयोगेनैव सम्पन्नं भवति। अस्मिन् अवसरे सांसदः जगदम्बिकापालः अवदत् यत् मननया कलायाः माध्यमेन समाजप्रेरणायाः यत् कार्यं क्रियते तत् वास्तवमेव अद्वितीयम् अस्ति। मनना निराश्रितानां परित्यक्तबालकानां प्रति समाजे जागरूकतां जनयितुं अस्मिन् मैराथनचित्रकला प्रदर्शने सहभागित्वं कृतवती।

देहल्यां मननचतुर्वेद्याः अयं एकविंशतितमः प्रदर्शनकार्यक्रमः आसीत्। सा पूर्वमेव राजस्थाने गुजराते च प्रमुखनगरेषु एतादृशानि चित्रकला प्रदर्शनानि आयोजितवती। तस्याः नाम्ना द्विसप्ततिघण्टापर्यन्तं निरन्तरं चित्रनिर्माणस्य विश्वकीर्तिमानः स्थापितः अस्ति। देहल्यां गतचतुर्विंशतिघण्टासु सा द्विपञ्चाशत् कलाकृतीः निर्मितवती।

**मनन उक्तवती यत् बालकानां संरक्षणस्य अधिकाराणां च विषये समाजे सकारात्मकदृष्टिकोणस्य आवश्यकता अस्ति। जनाः बालकान् प्रति केवलं सहानुभूतिं प्रदर्शयन्ति अथवा तैः सह क्रीडन्ति। परन्तु बालकान् सम्यक् अवगन्तुं आवश्यकता वर्तते। सा अवदत् यत् गृहे निवसन्तः बालकाः अपि उपेक्षायाः शिकाराः भवन्ति, परित्यक्तानां निराश्रितानां च बालकानां स्थितिः तस्मात् अपि अधिकं दयनीया अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani