Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, ०२ जुलाईमासः (हि.स.)। नेपालस्य कृषि-मन्त्रालयेन अगस्त-मासस्य मध्यभागपर्यन्तं भारतात् प्रायः २ लक्षं १० सहस्रं मेट्रिक-टन-परिमितं रासायनिक-उर्वरकम् आयातयितुं सज्जा कृता। धान्यकृष्यै आवश्यकस्य उर्वरकस्य पर्याप्त-आपूर्तिं सुनिश्चितां कर्तुं मन्त्रालयेन विविध-माध्यमैः एतावत्-परिमाणस्य उर्वरकस्य आयात-प्रक्रिया प्रवर्तिता।
सर्वकारतः सर्वकारम् इति सन्ध्यनुसारं भारतात् आनेतव्यं ३० सहस्र मेट्रिक-टन-परिमितं यूरिया-उर्वरकं अगस्त-मासस्य प्रथम-सप्ताहे नेपालं प्राप्स्यतीति सम्भावना वर्तते। एतदतिरिक्तं वैश्विक-निविदा-प्रक्रियया १ लक्षं ८० सहस्रं मेट्रिक-टन-परिमितं रासायनिक-उर्वरकमपि भारतात् आयातयिष्यते। अस्मिन् ६० सहस्र मेट्रिक-टन-परिमितं डीएपी-उर्वरकं तथा १ लक्ष २० सहस्र मेट्रिक-टन-परिमितं यूरिया-उर्वरकं अन्तर्भवतः।
मन्त्रालयेन अस्मिन् वर्षे अद्यावधि सर्वाधिक-परिमाणे रासायनिक-उर्वरकस्य आयातस्य लक्ष्यं निर्धारितम्। सहैव स्थानीय-स्तरे रासायनिक-उर्वरकस्य कृष्णविपणता अथवा अनियमितता दृश्यते चेत् तस्याः सूचनां पञ्जीकर्तुं व्यवस्थाऽपि कृता।
Hindusthan Samachar / Divya Ranjan