Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जुलाईमासः (हि.स.)।
मुख्यमन्त्री रेखागुप्ता गुरुवासरे उक्तवती यत् देहली ईवी नीति विद्युच्चालितयानानां प्रारम्भिकक्रयव्ययं तेषां सम्पूर्णजीवनकाले भवितव्यं सञ्चालनव्ययं च न्यूनीकर्तुं निर्मिता अस्ति। मुख्यमन्त्री गुरुवासरे विज्ञप्तिं प्रसारयन्ती अवदत् यत् अस्याः नीतेः अन्तर्गतं विद्युत्चालितयानक्रयप्रोत्साहनम्, पुरातनप्रदूषणकारिवाहनस्य परित्यागे स्क्रैपिंग प्रोत्साहनराशिः, आजीवनमार्गकरमुक्तिः, पञ्जीकरणशुल्कस्य पूर्णमुक्तिः, पेट्रोल तथा डीजलवाहनापेक्षया न्यूनः सञ्चालनव्ययः, न्यूनः अनुरक्षणव्ययः च एकत्र प्रदीयन्ते। अतः विद्युत्चालितयानानि गृहस्थानां व्यावसायिकचालकानां लघुविशालव्यवसायिनां च कृते अत्यन्तं युक्तिसङ्गतम् आर्थिकविकल्पम् अभवन्।
सा अवदत् यत् नीतेः अन्तर्गतं विद्युत्द्विचक्रवाहनक्रयस्य पात्रलाभार्थिभ्यः त्रिंशत्सहस्ररूप्यकपर्यन्तं क्रयप्रोत्साहनम्, दशसहस्ररूप्यकस्य स्क्रैपिंगप्रोत्साहनम्, वाहनस्य सम्पूर्णजीवनकालपर्यन्तं मार्गकरमुक्तिः, पञ्जीकरणशुल्कस्य पूर्णमुक्तिः च प्रदास्यते। एतेषां समस्तलाभानां परिणामस्वरूपं करसम्बद्धलाभेभ्यः अतिरिक्तं पञ्चाशत्सहस्ररूप्यकात् अधिका प्रारम्भिकबचतः सम्भविष्यति। विद्युत् आटोरिक्शा एल ५ क्रयस्य पात्रलाभार्थिभ्यः पञ्चाशत्सहस्ररूप्यकपर्यन्तं क्रयप्रोत्साहनम्, पञ्चविंशत्सहस्ररूप्यकस्य स्क्रैपिंगप्रोत्साहनम्, आजीवनमार्गकरमुक्तिः, पञ्जीकरणशुल्कमुक्तिः च प्रदास्यते। एतेन करलाभान् विहाय पञ्चसप्ततिसहस्ररूप्यकात् अधिका प्रारम्भिकबचतः सम्भविष्यति।
विद्युत्ग्रामीणसेवावाहनक्रेतृभ्यः पुरातनवाहनस्य स्क्रैपिंगकर्मणि पञ्चदशसहस्ररूप्यकस्य प्रोत्साहनराशिः प्रदास्यते। विद्युत् एन १ मालवाहकवाहनक्रयस्य पात्रलाभार्थिभ्यः एकलक्षरूप्यकपर्यन्तं क्रयप्रोत्साहनम्, पञ्चाशत्सहस्ररूप्यकस्य स्क्रैपिंगप्रोत्साहनम्, आजीवनमार्गकरमुक्तिः, पञ्जीकरणशुल्कमुक्तिः च प्रदास्यते। एतेन करलाभेभ्यः अतिरिक्तं प्रायः एकलक्षपञ्चाशत्सहस्ररूप्यकपर्यन्ता प्रारम्भिकबचतः सम्भविष्यति।
मुख्यमन्त्री अवदत् यत् अस्यां नीतौ व्यक्तिगतविद्युत्काराणां कृते क्रयप्रोत्साहनस्य व्यवस्था नास्ति। किन्तु यदि कश्चित् पात्रः पारम्परिकेन्धनचालितकारं परित्यज्य विद्युत्कारं क्रीणाति तर्हि तस्मै एकलक्षरूप्यकपर्यन्तं स्क्रैपिंगप्रोत्साहनम् प्रदास्यते। तदतिरिक्तम् आजीवनमार्गकरमुक्तिः पञ्जीकरणशुल्कमुक्तिः च भविष्यति। एतेषां समस्तप्रावधानानां कारणेन क्रयप्रोत्साहनस्य अभावे अपि क्रेता महत्त्वपूर्णम् आर्थिकलाभम् अवाप्स्यति। सा अवदत् यत् अस्याः नीतेः प्रमुखविशेषता एषा अस्ति यत् अत्र केवलम् एकविधा अनुदानव्यवस्था नास्ति, अपितु बहवः आर्थिकलाभाः एकत्र संयोजिताः सन्ति। पात्रक्रेतारः क्रयप्रोत्साहनम्, स्क्रैपिंगप्रोत्साहनम्, आजीवनमार्गकरमुक्तिम्, एककालिकपञ्जीकरणशुल्कमुक्तिं च प्राप्य वाहनस्य वास्तविकक्रयव्ययं पर्याप्तरूपेण न्यूनीकर्तुं शक्नुवन्ति। एतेन विद्युत्चालितयानक्रयस्य दृष्ट्या देहली देशस्य अत्यन्तमाकर्षकेषु राज्येषु अन्यतमं जातम्।
मुख्यमन्त्री अवदत् यत् सर्वकारेण सार्वजनिकधनस्य उपयोगः तत्रैव करणीयः इति निर्णयः कृतः यत्र तस्य अधिकतमः लाभः सामान्यनागरिकेभ्यः प्राप्यते। एतस्यैव चिन्तनस्य आधारः स्वीकृत्य द्विचक्रवाहनानि त्रिचक्रवाहनानि एन १ मालवाहकवाहनानि च प्राथमिकतया स्वीकृतानि, यतः एतेषां उपयोगः मुख्यतया मध्यमन्यूनायवर्गीयपरिवारैः व्यावसायिकचालकैः वितरणसेवासहभागिभिः लघुव्यवसायिभिः च क्रियते। व्यक्तिगतकारेषु क्रयअनुदानं न दत्त्वा सर्वकारेण तासु वाहनश्रेणीषु निवेशः केन्द्रितः अस्ति याभिः पर्यावरणे अधिकतमः सकारात्मकः प्रभावः भविष्यति तथा लक्षशः जनानाम् आजीविका अपि सुदृढा भविष्यति।
सा पुनः अवदत् यत् अस्याः नीतेः अन्तर्गतं मार्गकरमुक्तिः केवलं नीतिकालपर्यन्तं न भविष्यति, अपितु वाहनस्य सम्पूर्णजीवनकालपर्यन्तं प्रवर्तिष्यते। वाहनक्रयसमये पञ्जीकरणशुल्कस्य अपि पूर्णमुक्तिः प्रदास्यते। एतेषां लाभानां कारणेन क्रयव्ययः न्यूनः भविष्यति तथा विद्युत्चालितयानानि पारम्परिकपेट्रोलडीजलवाहनापेक्षया अधिकानि मितव्ययानि सिद्धानि भविष्यन्ति। बचतः केवलं वाहनक्रयपर्यन्तं न सीमिता भवति। विद्युत्चालितयानेषु प्रतिकिलोमीटर ऊर्जाव्ययः पेट्रोलडीजलवाहनापेक्षया अत्यल्पः भवति। तेषु चलनशीलभागानां संख्या अपि न्यूना भवति, अतः अनुरक्षणसेवायाः व्ययः अपि न्यूनः भवति। वाहनस्य सम्पूर्णजीवनकाले सञ्चालनजन्या एषा बचतः बहुशः सर्वकारेण प्रदत्तप्रारम्भिकप्रोत्साहनात् अपि अधिका भवति।
मुख्यमन्त्री अवदत् यत् अद्य देहल्यां त्रिशताधिकानि पञ्जीकृतानि विद्युत्चालितयानप्रतिमानानि उपलब्धानि सन्ति। तेषु मितव्ययस्कूटराः, उत्कृष्टमोटरसाइकिलाः, विद्युत् आटोरिक्शाः, व्यावसायिकमालवाहकवाहनानि च अन्तर्भवन्ति। विभिन्ननिर्मातृसंस्थानां मध्ये वर्धमानया स्पर्धया उत्पादानां गुणवत्ता वर्धिता, उपभोक्तृणां विकल्पाः विस्तारिताः, विविधायवर्गाणां आवश्यकतानां च अनुरूपाणि विद्युत्चालितयानानि अधिकसुलभानि अभवन्। सा नागरिकान् प्रार्थितवती यत् वाहनक्रयात् पूर्वं स्वेन चयनितं प्रतिमानम् देहली ईवी नीत्याः अन्तर्गतं अनुमोदितम् अस्ति इति अवश्यं सुनिश्चितं कुर्वन्तु। परिवहनविभागः सर्वेषां पात्रप्रतिमानानां सूचीम् ऑनलाइन पोर्टले उपलब्धां करिष्यति। अतः वाहनस्य आरक्षणात् पूर्वं तस्याः सूच्याः परीक्षणम् अवश्यं करणीयम्।
---------------
Hindusthan Samachar / Dheeraj Maithani