Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जुलाईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् निरन्तरः प्रयासः एव सफलतायाः वास्तविकः कुञ्जीभूतः मार्गः अस्ति। जीवने स एव जनः स्वलक्ष्यं प्राप्नोति यः धैर्येण दृढसंकल्पेन आत्मविश्वासेन च सह निरन्तरम् अग्रे गच्छति।
प्रधानमन्त्री मोदी अद्य एक्स माध्यमे सुभाषितम् एतत् समविभाजितवान्।
नानाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम। पापो नृषद्वरो जन इन्द्र इच्चरतः सखा चरैवेति॥
अस्य सुभाषितस्य अर्थः अस्ति यत् समृद्धिः सफलता च तस्मै एव पुरुषाय प्राप्यते यः कदापि श्रान्तः भूत्वा न विरमति। आलस्यं निष्क्रियता च मनुष्यं स्वलक्ष्यात् दूरं नयतः। परन्तु सततकर्मणा परिश्रमेण निरन्तरम् अग्रे गच्छन् एव जनः सफलतां सम्पादयति।
तेन उक्तं यत् ये जनाः धैर्येण दृढसंकल्पेन आत्मविश्वासेन च सह निरन्तरं प्रयत्नं कुर्वन्ति तेषां पक्षे सफलता अपि स्वयमेव तिष्ठति।
---------------
Hindusthan Samachar / Dheeraj Maithani