प्रधानमंत्रिसूर्यघरयोजनया राजनांदग्रामस्य साहू परिवारो जातः ऊर्जया आत्मनिर्भरः
3-3 किलोवाटमिते सोलर रूफटॉप प्लांट इत्याभ्यां विद्युद्बिलपत्रकं जातं शून्यम्, अतिरिक्त आयस्य अपि उद्घटितःमार्गः राजनांदग्रामः/रायपुरम्, 02 जुलाईमासः (हि.स.)। प्रधानमन्त्रिणः महत्त्वाकाङ्क्षिणी सूर्यगृहनिःशुल्कविद्युत्योजना प्रदेशे ऊर्जास्वावलम्
प्रधानमंत्री सूर्य घर योजना हितग्राही


3-3 किलोवाटमिते सोलर रूफटॉप प्लांट इत्याभ्यां विद्युद्बिलपत्रकं जातं शून्यम्, अतिरिक्त आयस्य अपि उद्घटितःमार्गः

राजनांदग्रामः/रायपुरम्, 02 जुलाईमासः (हि.स.)।

प्रधानमन्त्रिणः महत्त्वाकाङ्क्षिणी सूर्यगृहनिःशुल्कविद्युत्योजना प्रदेशे ऊर्जास्वावलम्बनाय हरितऊर्जायाश्च नूतनां गतिं प्रददाति। राजनान्दगांवजिलान्तर्गतस्य गठुलाग्रामस्य साहूपरिवारः अस्याः योजनायाः लाभं प्राप्य न केवलं स्वस्य विद्युत्शुल्कं शून्यं कर्तुं सफलः अभवत्, अपितु ग्राम्यप्रदेशेषु स्वच्छऊर्जाया ग्रहणस्य प्रेरणादायीदृष्टान्तः अपि अभवत्।

गठुलाग्रामे टीकमहोटलस्य सञ्चालकः अङ्कालुरामसाहू तस्य पुत्रः कुन्दनसाहू च स्वगृहे त्रिकिलोवाटक्षमतायुक्तौ द्वौ सौरऊर्जाछदसंयन्त्रौ स्थापितवन्तौ। होटलव्यवसायस्य कारणेन प्रतिमासं चतुःसहस्ररूप्यकेभ्यः पञ्चसहस्ररूप्यकपर्यन्तं विद्युत्शुल्कं देयम् आसीत्। तस्य न्यूनीकरणार्थं ताभ्यां सौरऊर्जा स्वीकृता।

साहूपरिवारेण योजनायाः पटले ऑनलाइन आवेदनं कृत्वा पञ्जीकृतविक्रेतुः माध्यमेन सौरऊर्जासंयन्त्रौ स्थापितौ। उभयोः संयन्त्रयोः कुलव्ययः प्रायः चत्वारिलक्षरूप्यकाणि अभवत्, यस्मिन् केन्द्रराज्यशासनाभ्यां संयुक्तरूपेण द्विलक्षषोडशसहस्ररूप्यकाणां अनुदानराशिः प्रत्यक्षतया तयोः बैङ्कखाते समुपलब्धा। अनेन तयोः व्यये उल्लेखनीया न्यूनता अभवत्।

सौरऊर्जासंयन्त्रयोः सञ्चालनारम्भानन्तरं परिवारस्य विद्युत्शुल्कं प्रायः शून्यम् अभवत्। नेटमीटरिंगव्यवस्थायाः अन्तर्गतं अधिकोत्पादिता विद्युत् ग्रिडव्यवस्थायां प्रेष्यते, येन भविष्ये अतिरिक्ताया आयायाः अपि सम्भावना वर्तते। अधुना साहूपरिवारः केवलं विद्युतः उपभोक्ता नास्ति, अपितु स्वच्छऊर्जायाः उत्पादकः अपि अभवत्।

साहूपरिवारेण प्रधानमन्त्री नरेन्द्रमोदी तथा मुख्यमन्त्री विष्णुदेवसाय इत्येतयोः प्रति कृतज्ञता व्यक्तीकृता। तैः उक्तं यत् एषा योजना सामान्यनागरिकाणाम् आर्थिकबचतायै ऊर्जास्वावलम्बनाय पर्यावरणसंरक्षणाय च प्रभावी माध्यमम् अस्ति।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री सूर्यगृहनिःशुल्कविद्युत्योजनायाः अन्तर्गतं सौरऊर्जाछदसंयन्त्रस्थापने केन्द्रराज्यशासनाभ्यां आकर्षकम् अनुदानं प्रदीयते। तदतिरिक्तं राष्ट्रियीकृतवित्तकोषाणां माध्यमेन रियायतीव्याजदरेण ऋणसुविधा अपि उपलब्धा क्रियते, येन अधिकाधिकपरिवाराः स्वच्छया सुलभया च ऊर्जया सम्बद्धाः भवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani