Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 02 जुलाईमासः (हि.स.)।
उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः उक्तवान् यत् प्रदेशे भारतीयजनतापक्षस्य द्विसहस्रसप्तविंशतितमे वर्षे पुनः सर्वकारः भविष्यति। तेन विश्वासः व्यक्तीकृतः यत् उत्तरप्रदेशे द्विसहस्रसप्तविंशतितमे वर्षे विधानसभानिर्वाचने भारतीयजनतापक्षः निरन्तरं तृतीयवारम् अपि प्रचण्डबहुमतेन सर्वकारं स्थापयिष्यति। अयोध्यायाः श्रीरामजन्मभूमिमन्दिरसम्बद्धे प्रकरणे प्राथमिकी अभिलेखिता अस्ति तथा विशेषान्वेषणदलम् निष्पक्षतया अन्वेषणं करोति। सर्वैः धैर्येण प्रतीक्षा कर्तव्या। अन्वेषणप्रक्रियायां विश्वासं स्थापयित्वा सर्वैः प्रतिवेदनस्य आगमनं प्रतीक्षितव्यम्।
प्रयागराजे पत्रकारैः सह संवादसमये उपमुख्यमन्त्री केशवप्रसादमौर्यः अवदत् यत् श्रीरामजन्मभूमिआन्दोलनसम्बद्धैः जनैः बहुवर्षाणि तपसा समर्पणेन च कार्यं कृतम्। सः अवदत् यत् यदि कस्मिंश्चित् स्तरे अनियमितता जाता अस्ति तर्हि तस्याः कृते वैधानिकी कार्यवाही क्रियते। यः कश्चित् दोषी भविष्यति तस्य विरुद्धं विधेः अनुसारेण कार्यवाही अवश्यं भविष्यति।
विपक्षस्य आरोपाणां विषये प्रतिक्रियां दत्त्वा केशवप्रसादमौर्यः अवदत् यत् समाजवादीपक्षस्य नेतॄणां वक्तव्यानि तेषां राजनैतिकनिराशां प्रदर्शयन्ति। सः उक्तवान् यत् विपक्षेन अन्वेषणसमाप्तेः पूर्वं निष्कर्षान् न स्वीकरोतु, अपितु अन्वेषणसंस्थासु विश्वासः करणीयः।
विधानसभानिर्वाचनस्य विषये काङ्ग्रेससमाजवादीपक्षयोः सम्भावितगठबन्धनस्य प्रश्ने सः अवदत् यत् भारतीयजनतापक्षः विपक्षदलानां गठबन्धनात् न चिन्तितः अस्ति। तस्य मतम् यत् विपक्षः संयुक्तरूपेण वा पृथक्पृथक् वा निर्वाचनं लडतु, उत्तरप्रदेशस्य जनाः पुनरपि भारतीयजनतापक्षाय प्रचण्डजनादेशं दास्यन्ति। तेन अपि दावा कृतः यत् इण्डियागठबन्धनं निरन्तरं दुर्बलं भवति।
उपमुख्यमन्त्री प्रदेशसर्वकारस्य ग्रामविकासयोजनानां उल्लेखं कृत्वा अवदत् यत् भारतीयजनतापक्षस्य सर्वकारः ग्रामाणां समग्रविकासाय पारदर्शिन्या पद्धत्या कार्यं करोति। सः उक्तवान् यत् सर्वकारस्य योजनानां लाभः कस्यापि अपव्ययस्य अभावे पात्रजनान् प्रति सम्यक् प्राप्यते तथा विकसितभारतस्य सङ्कल्पेन सह विकसितउत्तरप्रदेशस्य विकसितग्रामाणां च लक्ष्यं शीघ्रं साकारं क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani