Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, ०२ जुलाईमासः (हि.स.)। अमरनाथयात्रायाः समये श्रद्धालूनां सेवार्थम् अखिलभारतीय-धर्मप्रचार-सेवासमित्या जम्मू-कश्मीरप्रदेशे आयोजितस्य दशमस्य विशालभण्डारस्य शुभारम्भः गुरुवासरे धार्मिकविधि-विधानानुसारं सम्पन्नः। भण्डारस्य उद्घाटनं दिगम्बर-अखाडायाः महामण्डलेश्वरः श्रीश्री १००८ आचार्यः बंसीदासमहाराजः समितेः राष्ट्रियसमन्वयकस्य सुनीलः शर्मा इत्यस्य सान्निध्ये अकरोत्। कार्यक्रमस्य आरम्भः गणेशपूजया, वैदिक-मन्त्राणामुच्चारणेन तथा “बम-बम भोले” इति जयघोषेण अभवत्। अस्मिन् अवसरे डीबीपीएस-संस्थायाः अध्यक्षः वेदप्रकाश शर्मा, सनातनधर्मसभायाः पूर्वाध्यक्षः जगदीशः डोगरा, जीसीपीएफ-संस्थायाः यशपालः शर्मा इत्यादयः बहवः गणमान्यजनाः उपस्थिताः आसन्।
अस्मिन् अवसरे समितेः राष्ट्रियसमन्वयकः सुनीलः शर्मा अवदत् यत् अमरनाथ-यात्राकाले आगच्छद्भ्यः श्रद्धालुभ्यः सम्पूर्णयात्राकालं स्वच्छं, स्वादुः, ऊर्जाप्रदं, सुजीर्णं च सात्त्विकभोजनं प्रदास्यते। सः अवदत् यत् एकादशी-व्रतं कुर्वद्भ्यः श्रद्धालुभ्यः पृथक् विशेषभोजनस्य व्यवस्थापि कृता अस्ति। समितेः प्रवक्ता स्वतन्त्रः बख्शी अवदत् यत् देशस्य विविधराज्येभ्यः आगच्छद्भ्यः सर्वेभ्यः तीर्थयात्रिकेभ्यः पर्याप्तभोजनस्य तथा अन्यावश्यकव्यवस्थानां समुचितः प्रबन्धः सुनिश्चितः कृतः अस्ति। सः अपि अवदत् यत् समिति गतवर्षेष्विव अस्मिन् वर्षेऽपि पूर्णश्रद्धया सेवाभावेन च यात्रिणां सेवायां निरता अस्ति तथा बाबा-अमरनाथस्य अनुग्रहेण एषा सेवा निरन्तरं प्रवर्तिष्यते।
Hindusthan Samachar / Divya Ranjan