तृणमूलं प्रणि अधिकारस्य युद्धं, निर्वाचनायोगस्य समक्षमद्य विरुधिनां ममतागणस्य च अधिकारित्वे मुख्यश्रवणगोचरता
कोलकाता, 02 जुलाईमासः (हि. स.)। तृणमूलकाङ्ग्रेस इति दलस्य नाम निर्वाचनचिह्नस्य सङ्गठनस्य च अधिकारं प्रति प्रवर्तमानः राजनैतिकविवादः गुरुवासरे निर्णायकावस्थां प्राप्तुं शक्नोति। ऋतब्रतबनर्जी नेतृत्वेन सञ्चालितस्य विद्रोहिगणस्य दश विधायकाः अद्य नवदेह
ऋतब्रत बनर्जी


कोलकाता, 02 जुलाईमासः (हि. स.)। तृणमूलकाङ्ग्रेस इति दलस्य नाम निर्वाचनचिह्नस्य सङ्गठनस्य च अधिकारं प्रति प्रवर्तमानः राजनैतिकविवादः गुरुवासरे निर्णायकावस्थां प्राप्तुं शक्नोति। ऋतब्रतबनर्जी नेतृत्वेन सञ्चालितस्य विद्रोहिगणस्य दश विधायकाः अद्य नवदेहलीस्थितस्य भारतनिर्वाचनआयोगस्य पूर्णपीठस्य पुरतः स्वपक्षं प्रस्तोष्यन्ति। अस्यां श्रवणप्रक्रियायां विद्रोहिगुटः दलस्य नाम निर्वाचनचिह्नस्य दलनिधेः च अधिकारं प्रति स्वदावं प्रस्तोष्यति।

ऋतब्रतबनर्जी उक्तवान् यत् विद्रोहिगुटेन पूर्वमेव आयोगात् श्रवणकालः याचितः आसीत्। तदनन्तरम् आयोगेन द्वितीयजुलैदिनाङ्के पूर्णपीठस्य पुरतः श्रवणार्थम् आमन्त्रणं दत्तम्। बुधवासरे सायंकाले विद्रोहिगणस्य विधायकाः नवदेहलीं प्रति प्रस्थितवन्तः।

अयं विवादः द्वाविंशतितमे जूनमासस्य दिने अधिकं गम्भीरः अभवत् यदा विद्रोहिगुटेन त्रिंशत्सदस्यात्मिका नूतना राष्ट्रीयकार्यकारिणी दशसदस्यात्मिका उपसमितिः च गठिता। नूतनकार्यकारिण्यां पूर्वमुख्यमन्त्री ममताबनर्जी राष्ट्रीयाध्यक्षपदात् अपसारिता वरिष्ठविधायकः अरूपरायः च तस्मिन् पदे नियुक्तः। अस्यानन्तरं उभयोः गुटयोः मध्ये सङ्गठनात्मकः वैधानिकः च संघर्षः तीव्रतरः अभवत्।

विद्रोहिगुटस्य अधिवक्तारः निर्वाचनआयोगस्य पुरतः सर्वान् प्रस्तावान् आवश्यकवैधानिकदस्तावेजान् च पूर्वमेव समर्पितवन्तः। अधुना आयोगः उभयोः पक्षयोः दावान् दस्तावेजान् च आधारीकृत्य प्रकरणस्य विचारं करिष्यति। विद्रोहिगुटस्य दावा अस्ति यत् पश्चिमबङ्गविधानसभायां तृणमूलकाङ्ग्रेसस्य समग्रेषु अशीतिविधायकेषु षष्ट्यधिकाः विधायकाः तेषां पक्षे सन्ति, यदा ममताबनर्जी नेतृत्वेन सञ्चालितस्य गुटस्य पक्षे केवलं विंशतिः विधायकाः सन्ति। एतदेव कारणं निर्दिश्य विद्रोहिगुटः वदति यत् दलस्य नाम निर्वाचनचिह्नस्य च विषये तेषां दावा अधिकः सुदृढः अस्ति।

विद्रोहिगुटेन निर्वाचनआयोगस्य पुरतः एषः अपि तर्कः प्रस्तुतः यत् यदि तेषां पक्षे स्थितानां षष्ट्यधिकविधायकानां औसतमतानां गणना क्रियते तर्हि तेषां पक्षे प्रायः अष्टचत्वारिंशल्लक्षमतानि भवन्ति, यत् निर्वाचनआयोगेन निर्धारितमानदण्डात् अधिकम् अस्ति। अपरस्मिन् पक्षे ममतागुटस्य पक्षे केवलं विंशतिविधायकाः सन्ति, अतः तेषां मतसंख्या निर्धारितसीमां न प्राप्नोति।

अधुना सर्वेषां दृष्टिः निर्वाचनआयोगस्य पूर्णपीठस्य श्रवणप्रक्रियायाम् एव केन्द्रिता अस्ति। अस्याः श्रवणप्रक्रियायाः परिणामः तृणमूलकाङ्ग्रेसस्य नाम निर्वाचनचिह्नस्य सङ्गठनात्मकाधिकारस्य च विषये कस्य गुटस्य दावा अधिकः सुदृढः इति निर्णेतुं महत्त्वपूर्णः भविष्यति। तथापि अन्तिमनिर्णयः निर्वाचनआयोगेन उभयोः पक्षयोः युक्तीनां उपलब्धवैधानिकतथ्यानां च सम्यक्परीक्षणानन्तरमेव विधास्यते।

Hindusthan Samachar / Dheeraj Maithani