धार्मिक-धरोहरस्य सुनियोजित-विनाशः, जिन्ना-देशस्य विषाक्तं मुखं विश्वस्य पुरतः उद्घाटितम् - तरुण-चुघः
नवदेहली, ०२ जुलाईमासः (हि.स.)। भारतीय-जनता-पक्षस्य राष्ट्रिय-महामन्त्री राज्यसभा-सांसदः तरुण-चुघः पाकिस्तानस्य फारूकाबादे स्थितस्य १२५-वर्ष-प्राचीनस्य ऐतिहासिकस्य श्रीगुरु-सिंहसभा-साहिब-गुरुद्वारस्य बुलडोजर-यन्त्रेण ध्वंसस्य तीव्रां निन्दाम् अकरोत्
भाजपा के राष्ट्रीय महासचिव तरुण चुग


नवदेहली, ०२ जुलाईमासः (हि.स.)। भारतीय-जनता-पक्षस्य राष्ट्रिय-महामन्त्री राज्यसभा-सांसदः तरुण-चुघः पाकिस्तानस्य फारूकाबादे स्थितस्य १२५-वर्ष-प्राचीनस्य ऐतिहासिकस्य श्रीगुरु-सिंहसभा-साहिब-गुरुद्वारस्य बुलडोजर-यन्त्रेण ध्वंसस्य तीव्रां निन्दाम् अकरोत्। तेन उक्तं यत् एषः केवलम् एकस्य भवनस्य ध्वंसः न, अपितु समग्रस्य हिन्दू-सिक्ख-समाजस्य श्रद्धायाः, इतिहासस्य तथा धरोहरस्य सुनियोजितम् आक्रमणम् अस्ति। चुघेन उक्तं यत् एतत् गुरुद्वारं सिंहसभा-आन्दोलनस्य सजीव-धरोहरः आसीत् तथा प्रथम-पातशाही श्रीगुरुनानकदेव-महोदयेन सम्बद्धस्य पवित्रस्य सच्चा-सौदा-साहिब-गुरुद्वारस्य समीपे स्थितः आसीत्। यस्यां भूमौ गुरु-साहिबस्य चरण-स्पर्शः प्राप्तः, तस्यामेव भूमौ बुलडोजर-यन्त्रस्य प्रयोगं कृत्वा पाकिस्तानेन स्वस्य हिन्दू-सिख-विरोधि विषाक्तं मुखं समग्रविश्वस्य पुरतः उद्घाटितम्।

गुरुवासरे माध्यमैः सह वार्तालापे तरुण-चुघः अवदत् यत् अस्मिन् ध्वंसकर्मणि पाकिस्तान-सर्वकारस्य प्रशासनस्य च स्पष्टा मिलीभगिता अस्ति। स्थानीय-व्यवसायिना अनिवार्य-अनापत्ति-प्रमाणपत्रम् विना रात्रौ एव गुरुद्वारं ध्वंसितम्, हिन्दू-सिक्ख-समुदायस्य विरोध-प्रदर्शनानन्तरमेव सर्वकारः जागरूकः अभवत्। यत् भवनं पाकिस्तान-सर्वकारेण स्वयमेव ऐतिहासिक-स्मारकम् इति घोषितं ध्वंसे पूर्ण-प्रतिबन्धश्च विधारितः, तदेव भवनं भू-लुंठकै: दिवा ध्वंसितम्। चुघेन उक्तं यत् एषा केवलं प्रशासनिक-विफलता न, अपितु हिन्दू-सिख-विरोधिनः पाकिस्तानी-शासनस्य संरक्षणमेव, यतः भू-लुंठका: सर्वकारस्य संरक्षणे धार्मिक-धरोहरं विनाशयन्ति।

चुघेन उक्तं यत् एषा एकाकिनी घटना न, अपितु पाकिस्तानस्य घृणित-प्रवृत्तेः भागः अस्ति। अस्मिन्नेव जून-मासे खैबर-पख्तूनख्वा-प्रदेशस्य मरदान-जनपदे गुरुद्वारस्य सेवां कुर्वन्तौ सेवादार-दम्पती जगन्नाथः तथा आशावन्ती निर्ममतया हतौ। कोहरियाँ-गुरुद्वारम्, श्रीसिंहसभा-गुरुद्वारम्, टेरी-स्थितं श्रीपरमहंसदयाल-मन्दिरम्, ल्यारी-स्थितं द्विशत-वर्ष-प्राचीनं हनुमत्-मन्दिरम्— एषा सूची अनन्ता अस्ति।

चुघेन उक्तं यत् विवरणानि मिथ्यां न वदन्ति। १९४७ तमे वर्षे पाकिस्ताने अल्पसंख्यक-जनसङ्ख्या प्रायः २०–२३ प्रतिशतम् आसीत्, या अद्य न्यूनीभूय केवलं ३.५ प्रतिशतम् अवशिष्टा। ते कोटिशः हिन्दवः, सिखाः, ईसाईयश्च कुत्र गताः? बलात्-धर्मान्तरणम्, हत्याः, पलायनं च—एव पाकिस्तानस्य तथा-कथितम् अल्पसंख्यक-प्रारूपम् इति।

चुघेन उक्तं यत् १९५० तमे वर्षे सम्पन्ने नेहरू-लियाकतसन्धौ पाकिस्तानेन अल्पसंख्यकानां धार्मिक-स्वातन्त्र्यस्य, पूजास्थलानां सुरक्षायाः तथा जीवन-सम्पत्त्योः रक्षणस्य प्रत्याभूतिः दत्ता आसीत्। किन्तु गत-७६-वर्षेषु पाकिस्तानेन अस्य समझौतस्य प्रत्येकं प्रावधानं उल्लङ्घितम्। भारतेन स्वसंविधानेन अल्पसंख्यकेभ्यः अधिकाराः प्रदत्ताः, किन्तु पाकिस्तानेन तेभ्यः बुलडोजर-यन्त्राणि, जनसमूह-हिंसां तथा भू-माफियान् एव दत्तवान्। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य नेतृत्वे भारत-सर्वकारः हिन्दू-सिक्ख-श्रद्धायाः समर्थनाय दृढतया तिष्ठति।

विपक्ष-दलान् लक्ष्यीकृत्य चुघेन उक्तं यत् ये नेतारः पाकिस्तानस्य प्रशंसायै लेखनीम् उद्धरन्ति, तेषां समक्षम् अद्य गुरुद्वारस्य भग्नावशेषाः एव प्रश्नान् कुर्वन्ति। तेन पृष्टं यत् किम् एषां स्नेहः केवलं पाकिस्तानस्य शासकेभ्यः अस्ति, न तु तत्र क्लिश्यमानेभ्यः हिन्दू-सिक्ख-भ्रातृभ्यः? चुघेन उक्तं यत् ये नेतारः स्वस्य सेनायाः प्रमाणानि याचन्ते, पाकिस्तानस्य दावेषु च नेत्रे निमील्य विश्वासं कुर्वन्ति, ते अद्य देशाय कथयन्तु यत् पाकिस्ताने हिन्दू-सिक्ख-अल्पसंख्यकानां प्रति एषः अत्याचारः तैः दृश्यते उत न।

Hindusthan Samachar / Divya Ranjan