ओड़िया फिल्म 'आफा' इत्येतत् चलचित्रं मुख्यमंत्री मोहन माझी अकरोत् करमुक्तम्
भुवनेश्वरम्, 02 जुलाईमासः (हि.स.)। ओडिशाराज्यस्य मुख्यमन्त्री मोहनमाझी ओडियाभाषायाः आफा इति चलचित्रं राज्ये करमुक्तम् इति घोषितवान्। एतस्मिन् विषये प्रस्तुतस्य प्रस्तावस्य अनुमोदनं मुख्यमन्त्रिणा प्रदत्तम्। एषा सूचना मुख्यमन्त्रिकार्यालयेन प्रदत्
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वरम्, 02 जुलाईमासः (हि.स.)।

ओडिशाराज्यस्य मुख्यमन्त्री मोहनमाझी ओडियाभाषायाः आफा इति चलचित्रं राज्ये करमुक्तम् इति घोषितवान्। एतस्मिन् विषये प्रस्तुतस्य प्रस्तावस्य अनुमोदनं मुख्यमन्त्रिणा प्रदत्तम्। एषा सूचना मुख्यमन्त्रिकार्यालयेन प्रदत्ता।

अस्य चलचित्रस्य निर्देशनं प्रीतिराजसतपथी कृतवान्, निर्माणकार्यं च नैनादासतिवारी कृता। आफा इति चलचित्रस्य कथा अङ्गदानम् इति अत्यन्तसंवेदनशीलसामाजिकमहत्त्वयुक्तविषयम् आधारीकरोति। चलचित्रस्य उद्देशः मानवतायाः प्रति संवेदनशीलतां वर्धयितुं विशेषतः युवजनानां मध्ये अङ्गदानस्य विषये जागरूकतां जनयितुं च अस्ति।

चलचित्रे षोडशवर्षीया गम्भीररोगपीडिता किशोरी प्रेरणादायिनी कथारूपेण प्रदर्शिता अस्ति। सा जीवनस्य कठिनपरिस्थितिषु अपि स्वाङ्गदानस्य निर्णयं स्वीकृत्य मानवतायाः उत्कृष्टम् उदाहरणं प्रस्तुतवती। साहसस्य संवेदनशीलतायाः सामाजिकउत्तरदायित्वस्य च सन्देशं वहन्ती एषा चलचित्रकृति समाजे अङ्गदानस्य विषये सकारात्मकचिन्तनस्य विकासे जनजागरूकतावर्धने च महत्त्वपूर्णां भूमिकां निर्वक्ष्यति इति अपेक्षा अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani