Enter your Email Address to subscribe to our newsletters

नवदेहली, ०२ जुलाईमासः (हि.स.)। अभिनेतु: अन्नू-कपूर-अभिनीतस्य ‘उत्तर-दा-पुत्तर’ इति चलचित्रस्य पूर्वावलोकनं प्रकाशितम्। अस्य चलचित्रस्य पूर्वावलोकनं अभिनेता मनोज-बाजपेयी लोकार्पितवान्। हास्य-नाट्य-शैल्याः एतत् चलचित्रं वास्तुशास्त्रस्य, अन्धविश्वासस्य तथा भाग्यसम्बद्ध-मान्यतानां विषये ललित-व्यङ्ग्यात्मक-शैल्या कटाक्षं करोति। पूर्वावलोकने हास्यस्य, पारिवारिक-सम्बन्धानां तथा सामाजिक-सन्देशस्य रोचकं समन्वयं दृश्यते, येन प्रेक्षकाणां विशेषम् आकर्षणम् अभवत्।
चलच्चित्रे अन्नू-कपूरः तादृशस्य पुरुषस्य भूमिकां निर्वहति, यस्य दृढः विश्वासः भवति यत् सम्यक् दिशा एव तस्य भाग्यं परिवर्तयितुं शक्नोति। अस्याः धारणायाः कारणात् तस्य जीवने अनेकाः अप्रत्याशिताः घटनाः जायन्ते, याभिः हास्य-भावनापूर्णाः परिस्थितयः उत्पद्यन्ते। अयं चलच्चित्रः एतदपि प्रश्नं प्रस्तौति यत् जीवने सफलता सुखं च भाग्याधीनं वा, उत स्वकर्माधीनम्। पूर्वावलोकने एषः विषयः मनोरञ्जक-व्यङ्ग्यात्मक-रीत्या प्रस्तुतः अस्ति।
अस्मिन् चलचित्रे रुखसार-रहमान:, पवन-मल्होत्रा, बृजेन्द्र-काला, इश्तियाक-खान: तथा अन्ये कलाकाराः अपि महत्त्वपूर्णासु भूमिकासु दृश्यन्ते। अस्य निर्माणं सन्दीप-कपूरेण प्रिया-कपूर-इत्यनया च कृतम्, निर्देशनस्य दायित्वं तु रविन्द्र-सिवाचेन निर्वुढम्। प्रोमोडोम-मोशन-पिक्चर्स इति निर्माणी-संस्थायाः ध्वजतले निर्मितम् इदं चलच्चित्रं २४ जुलाई २०२६ दिनाङ्के विश्वभरस्य चलचित्र-प्रदर्शन-गृहेषु प्रदर्शितं भविष्यति।
Hindusthan Samachar / Divya Ranjan