Enter your Email Address to subscribe to our newsletters

देहरादूनम्, ०२ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी गुरुवासरे सचिवालये क्रीडा-युवा-कल्याण-विभागस्य समीक्षा-सभायाम् अधिकारिणः निर्देशितवान् यत् राष्ट्रीय-क्रीडा-प्रतियोगितासु पदक-विजेता-क्रीडकाणां आउट-ऑफ-टर्न-सर्वकारीय-सेवायां समायोजनस्य प्रक्रिया निर्धारित-समयस्य अन्तः सम्पूर्णां क्रियताम्। सः उक्तवान् यत् एतेषां यथासम्भवं अधिकतम-क्रीडकाणां क्रीडा-विभागे एव नियुक्त्यर्थं कार्ययोजनां सज्जीक्रियताम्।
मुख्यमन्त्री उक्तवान् यत् केन्द्रस्य राष्ट्रीय-क्रीडा-नीति-२०२५-अनुरूपं राज्यस्य नूतना क्रीडा-नीतिः निर्मीयताम्। सः गोलापार-क्षेत्रे स्थितस्य उत्तराखण्ड-राज्य-क्रीडा-विश्वविद्यालयस्य अग्रिम-मासात् शैक्षणिक-सत्रस्य प्रारम्भं, प्रवेश-प्रक्रियायाः, प्रशिक्षकानां, कर्मचारिणां तथा अधिकारिणां नियुक्तेः च शीघ्रतां कर्तुं निर्देशान् अददात्। सहैव एकः खण्डः–एकं लघु-क्रीडाङ्गणम् इति योजनायाः अन्तर्गतं निर्माण-कार्येषु शीघ्रताम् आनयितुम् अपि निर्देशितवान्।
सः अधिकारिणः ३८तम-राष्ट्रीय-क्रीडास्पर्धासु विकसितायाः क्रीडा-अवसंरचनायाः अनुरक्षणार्थं कार्ययोजनां निर्मातुं निर्देशितवान्। मुख्यमन्त्री अवदत् यत् देहरादूने, गोलापारे, रुद्रपुर-वेलोड्रोमे, टिहरी-झील, हरिद्वारे तथा पिथौरागढे विकसितानां क्रीडा-सुविधानां क्रीडकाणां हिताय अधिकतमम् उपयोगं सुनिश्चितीक्रियताम्।
मुख्यमन्त्री अग्रिम-३९तम-राष्ट्रीय-क्रीडास्पर्धा-२०२७ इत्यस्य सिद्धताः अधुनैव आरभ्यन्ताम्, विविध-क्रीडानां विशेष-प्रशिक्षण-शिविराणि आयोज्यन्ताम् तथा क्रीडा-सङ्घानां सहयोगेन क्रीडकाणां चयन-प्रतिभा-परिचय-प्रक्रिया शीघ्रीक्रियताम् इति निर्देशान् अददात्। सः उक्तवान् यत् राज्य-सर्वकारस्य लक्ष्यं देवभूमिं क्रीडाभूमिरूपेण प्रतिष्ठापयितुम् अस्ति।
सः एकः जनपदः–एका क्रीडा इति योजनायाः प्रभावी-क्रियान्वयनम्, प्रत्येकं जनपद-क्रीडा-छात्रावासं सम्बद्ध-क्रीडायाः नर्सरीरूपेण विकसितुं तथा क्रीडकेभ्यः गुणवत्तापूर्णाः क्रीडा-सुविधाः प्रदातुं विशेषं बलम् अददात्।
सभायाम् अधिकारिभिः निवेदितं यत् अधुना यावत् २९ पदक-विजेता-क्रीडका: सर्वकारीय-सेवायां समायोजिताः सन्ति। एकः खण्डः–एकं लघु-क्रीडाङ्गणम् इति योजनायाः अन्तर्गतं ४८ लघु-क्रीडाङ्गणानि निर्मितानि, अन्येषां १० क्रीडाङ्गणानां निर्माण-कार्यं प्रवर्तमानम् अस्ति। भारतस्य प्रथमस्य महिला-आवासीय-क्रीडा-महाविद्यालयस्य, लोहाघाटे, निर्माण-कार्यं द्रुतगत्या प्रचलति। अपरञ्च गोलापार-स्थिते राज्य-क्रीडा-विश्वविद्यालये ३९ विविध-क्रीडा-अवसंरचना-परियोजनानां विकास-कार्यं प्रचलति।
अस्मिन् अवसरे क्रीडा-मन्त्री रेखा-आर्या, प्रमुख-सचिवः आर.के.-सुधांशुः, सचिवः शैलेश-बगौली, विशेष-प्रमुख-सचिवः अमित-सिन्हा, क्रीडा-निदेशिका दीप्ति-सिंह: तथा विभागस्य वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan