आयु निर्धारण प्रमाण पत्र प्रकरणानां जातं निस्तारणं, प्रथमतया ऑनलाइन प्रमाण पत्रं निर्गतम्
वाराणसी, 02 जुलाईमासः(हि. स.)। उत्तरप्रदेशस्य वाराणस्यां मुख्यचिकित्साधिकारी डा मुकेशकुमारस्य निर्देशनानुसारं गठितेन चिकित्सकमण्डलेन आवेदनकर्तॄणां चिकित्सीयपरीक्षणं कृत्वा तेषां आयुनिर्धारणप्रमाणपत्रसम्बद्धप्रकरणानां निस्तारणं कृतम्। आयुनिर्धारणप
मुख्य चिकित्सा अधिकारी कार्यालय


वाराणसी, 02 जुलाईमासः(हि. स.)।

उत्तरप्रदेशस्य वाराणस्यां मुख्यचिकित्साधिकारी डा मुकेशकुमारस्य निर्देशनानुसारं गठितेन चिकित्सकमण्डलेन आवेदनकर्तॄणां चिकित्सीयपरीक्षणं कृत्वा तेषां आयुनिर्धारणप्रमाणपत्रसम्बद्धप्रकरणानां निस्तारणं कृतम्। आयुनिर्धारणप्रमाणपत्रस्य प्रक्रिया पूर्वम् अफलाइनरूपेण प्रचलिता आसीत्। अधुना प्रथमवारम् एषा आनलाइनप्रमाणपत्ररूपेण कार्यान्विता अभवत्।

मुख्यचिकित्साधिकारी डा मुकेशः अवदत् यत् अस्याः सेवायाः जिलास्तरीयसक्षमप्राधिकारी सः एव नियुक्तः अस्ति। जनहितपोर्टले उपलब्धनिर्देशानुसारम् आयुप्रमाणपत्रसेवा विशेषपरिस्थितिषु नागरिकेभ्यः प्रदीयते। एषा सेवा न्यायालयस्य विभागाध्यक्षस्य अन्यस्य सक्षमप्राधिकारीणः वा निर्देशानुसारम् आयुनिर्धारणार्थम् उपयुज्यते। चिकित्सकमण्डले आवेदनकर्तॄणां आवश्यकचिकित्सीयपरीक्षणम् अभिलेखपरीक्षणं च कृत्वा नियमानुसारम् आयुनिर्धारणकार्यवाही सम्पाद्यते। चिकित्सकमण्डलेन प्रदत्तायाः संस्तुतेः आधारेण सम्बन्धितानाम् आवेदनानां निस्तारणं क्रियते।

तेन उक्तं यत् जनहितपटलस्य माध्यमेन आयुनिर्धारणस्य प्रक्रिया पूर्णतया पारदर्शिनी समयबद्धा नागरिकहितैषिणी च कृता अस्ति। शासनस्य अभिप्रायानुसारं सर्वेषाम् आवेदनानां गुणवत्तापूर्णं निर्धारितसमयसीमायाः अन्तर्गतं च निस्तारणं सुनिश्चितं क्रियते।

---------------

Hindusthan Samachar / Dheeraj Maithani