Enter your Email Address to subscribe to our newsletters

वाराणसी, 02 जुलाईमासः (हि.स.)।
अपनादल एस इति दलस्य संस्थापकस्य डा सोनेलालपटेलस्य जयन्त्याः अवसरे गुरुवासरे राजधानी लखनऊनगरे आयोजिते जनस्वाभिमानदिवसकार्यक्रमे सहभागित्वार्थं वाराणस्याः सेवापुरीक्षेत्रात् बहुसंख्यकाः कार्यकर्तारः प्रातःकाले एव बसयानैः अन्यैः चतुश्चक्रवाहनैः च प्रस्थितवन्तः। कपसेठीस्थितात् सर्वोदय-अन्तरमहाविद्यालयस्य क्रीडाङ्गणात् बाबूलालपटेलस्य नेतृत्वे कार्यकर्तृणां काफिलः बसयानैः चतुश्चक्रवाहनैः च गोमतीनगरस्थितम् इन्दिरागान्धीप्रतिष्ठानं प्रति प्रस्थितः।
प्रस्थानात् पूर्वं बाबूलालपटेलः अवदत् यत् अस्यां रल्यां अपनादल एस इति दलस्य राष्ट्रीयाध्यक्षा केन्द्रीयमन्त्री अनुप्रियापटेलः सम्बोधनं करिष्यति। दलस्य राष्ट्रीयोपाध्यक्षः उत्तरप्रदेशशासनस्य प्राविधिकशिक्षामन्त्री आशीषपटेलः अन्ये च वरिष्ठनेतारः अपि अस्मिन् कार्यक्रमे उपस्थिताः भविष्यन्ति।
तेन उक्तं यत् अस्याः रल्याः माध्यमेन आगामिराजनीतिकरणनीतेः सङ्गठनविस्तारस्य तथा मतदानकेन्द्रस्तरपर्यन्तं कार्यकर्तॄणां सक्रियीकरणस्य विषये विमर्शः भविष्यति। राष्ट्रियजनतान्त्रिकगठबन्धनस्य सहयोगिदलत्वेन अपनादल आगामिनि विधानसभानिर्वाचने सहैव स्पर्धां करिष्यति तथा विकासस्य गतिः अधिका भविष्यति।
Hindusthan Samachar / Dheeraj Maithani