आयुर्वेद चिकित्सा शिविरस्य समापनं, तृतीये दिने 110 रोगिणः अगृह्णन् लाभम्
हरिद्वारम्, 02 जुलाईमासः (हि.स.)। आयुर्वेदविभागस्य तत्त्वावधाने आयुष्मान आरोग्यमन्दिरे बहादराबादे आयोजितस्य त्रिदिवसीयस्य आयुर्वेदचिकित्साशिविरस्य गुरुवासरे समापनम् अभवत्। शिविरस्य अन्तिमदिवसे अतिवृष्टेः अपि एकशतदश रोगिणः स्वास्थ्यलाभम् अलभन्त। अन
विशेष आयुर्वेद चिकित्सा शिविर


हरिद्वारम्, 02 जुलाईमासः (हि.स.)।

आयुर्वेदविभागस्य तत्त्वावधाने आयुष्मान आरोग्यमन्दिरे बहादराबादे आयोजितस्य त्रिदिवसीयस्य आयुर्वेदचिकित्साशिविरस्य गुरुवासरे समापनम् अभवत्। शिविरस्य अन्तिमदिवसे अतिवृष्टेः अपि एकशतदश रोगिणः स्वास्थ्यलाभम् अलभन्त। अन्तिमदिवसे मुख्यतया सन्धिवेदना कटिवेदना ग्रीवावेदना साइटिका अर्शः भगन्दरः त्वग्रोगाः वैरिकोज वेन्स स्थौल्यम् मधुमेहः उच्चरक्तचापः पाचनविकाराः स्त्रीरोगाश्च इत्येतेषां रोगाणां पीडितानां संख्या अधिका आसीत्। शिविरे डा विशालप्रभाकरः प्रभारी चिकित्साधिकारी डा सोरमी सोमकरः शल्यचिकित्सकः डा विजेन्द्रकुशवाहः क्षारसूत्रविशेषज्ञः डा विकासदुबे पञ्चकर्मविशेषज्ञः तथा डा संजयकुमारः इत्येतेषां वैद्यविशेषज्ञानां मार्गदर्शनेन रोगिणः पञ्चकर्मणा अग्निकर्मणा जलौकावचारणेन क्षारसूत्रचिकित्सया च उपचारिताः। शिविरे औषधिवितरणस्य कार्यं मुख्यफार्मेसी अधिकारी कैलाशभट्टः फार्मेसी अधिकारी शशिकला च सम्यक् निर्वहितवन्तौ। रोगिणां हीमोग्लोबिन रक्तशर्करा रक्तचापः ईसीजी परीक्षणस्य च व्यवस्था अपि कृता आसीत् यस्य सञ्चालनं श्रीमती शीतला तथा कुमारी कञ्चना इत्येताभ्यां कृतम्। योगसत्रस्य सञ्चालनं योगानुदेशिका नीतू चौहान तथा श्री दीपकपाठकः अकुरुताम्। जिला आयुर्वेद यूनानी अधिकारी डा स्वास्तिकसुरेशस्य निर्देशनस्य अधीनं सञ्चालितस्य अस्य स्वास्थ्यशिविरस्य विषये प्रभारी चिकित्साधिकारी डा विशालप्रभाकरः अवदत् यत् आयुर्वेदोत्कर्षकेन्द्रे बहादराबादे भविष्ये अपि पञ्चकर्म क्षारसूत्र अग्निकर्मादयः विशेषचिकित्सासेवाः निरन्तरम् उपलब्धाः भविष्यन्ति। आयुषमिशनविशेषज्ञः डा अवनीशकुमार उपाध्यायः उक्तवान् यत् अयं शिविरः जनस्वास्थ्यस्य क्षेत्रे आयुषविभागस्य महत्त्वपूर्णा पहलः अस्ति यस्य माध्यमेन बहुसंख्यकेभ्यः जनाभ्यः गुणवत्तायुक्ताः आयुर्वेदिकचिकित्सासेवाः सुलभाः अभवन्।

Hindusthan Samachar / Dheeraj Maithani