Enter your Email Address to subscribe to our newsletters


नवदेहली, ०२ जुलाईमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः गुरुवासरे उपराष्ट्रपति-भवने राज्यसभा-सांसदेन डाॅ.अजीत-माधवराव-गोपचडे इत्यनेन प्रारब्धस्य एमपी-लीड-फेलोशिप्-कार्यक्रमस्य चत्वारिंशत् सहभागिभिः सह संवादम् अकरोत्। सहभागिनः सम्बोधयन् उपराष्ट्रपतिः अवदत् यत् यथार्थं नेतृत्वं पदेन, शक्त्या वा अधिकारेण न, अपितु समाजसेवया एव परिचीयते। तेन यूनां प्रति आग्रहः कृतः यत् ते स्वव्यवहारे विनयम्, प्रामाणिकतां, करुणां च अङ्गीकुर्वन्तु तथा समाजस्य प्रति स्वकर्तव्यं निर्वहन्तु। सः अवदत् यत् स एव उत्तमः नेता भवति यः जनानां समस्याः अवगच्छति तासां समाधानाय च कार्यं करोति।
उपराष्ट्रपतिना देशस्य एकतायाः अखण्डतायाश्च विषये विशेषः बलः प्रदत्तः। तेन उक्तं— “भारतम् एकम् आसीत्, अस्ति, सदा च एकमेव भविष्यति।” तेन यूनः आहूताः यत् ते प्रदेश-भाषा-जाति-भेदादिभ्यः उपरि उत्थाय राष्ट्रहितं सर्वोच्च-प्राथमिकतया स्वीकरोतु। तेन उक्तं यत् भारतस्य सांस्कृतिक-वैविध्यं तस्य दुर्बलता न, अपितु तस्य महान् बलम् अस्ति। भारतस्य विकास-यात्रायाः उल्लेखं कुर्वन् सः अवदत् यत् १९६०-दशके देशः खाद्यान्न-सङ्कटस्य समक्षं करोति स्म, किन्तु अद्य भारतं विश्वस्य प्रमुख-खाद्यान्न-निर्यातक-देशेषु परिगण्यते।
तेन युवभि: उक्ताः यत् ते पूर्ववंशानां सङ्घर्षान् अवगच्छन्तु, तैः प्रेरणां प्राप्य देशस्य विकासे योगदानं ददतु। उपराष्ट्रपतिः एमपी-लीड-फेलोशिप-कार्यक्रमस्य चयनितान् चत्वारिंशत् सहभागिनः अभिनन्दितवान्, येषां चयनं पञ्चसहस्राधिक-आवेदकेभ्यः अभवत्। तेन उक्तं यत् एषः कार्यक्रमः यूनः कक्षायाः बहिः वास्तविक-जगतः सह संयोजयति तथा तेषाम् आत्मविश्वासं वर्धयति। अवसरैः सह निरन्तर-परिश्रमः योग्यता च अनिवार्यौ स्तः इति अपि तेन उक्तम्। युवान: महत् स्वप्नानि द्रष्टुं प्रेरयन् सः अवदत् यत् भविष्ये तेषु केचन देशस्य सर्वोच्च-पदेष्वपि समारोढुं शक्नुवन्ति।
उल्लेखनीयम् अस्ति यत् एषा एमपी-लीड-फेलोशिप सांसदेन डाॅ.अजीत-माधवराव-गोपचडे इत्यनेन प्रारब्धः द्विमासात्मकः प्रशिक्षुता-कार्यक्रमः अस्ति, यस्य उद्देश्यं यूनः प्रशासनस्य, नीति-निर्माणस्य तथा लोकतान्त्रिक-प्रक्रियाणां व्यावहारिकम् अवबोधनं प्रदातुम् अस्ति।
Hindusthan Samachar / Divya Ranjan