तिलकेन, पुष्पवर्षया मिष्ठान्नेन स्वागतं, परिषदीय विद्यालयेषु नूतनसत्रस्य जातः उत्साहपूर्णः शुभारम्भः
देवरिया, 02 जुलाईमासः (हि.स.)। ग्रीष्मकालस्य दीर्घावकाशस्य अनन्तरं गुरुवासरे देवरियाजनपदस्य परिषदीयविद्यालयेषु नूतनशैक्षणिकसत्रस्य प्रारम्भः उत्साहेन उल्लासेन पारम्परिकस्वागतेन च अभवत्। जनपदस्य द्विसहस्रमेकशतैकविंशति परिषदीयविद्यालयेषु छात्रछात्रा
तिलकेन, पुष्पवर्षया मिष्ठान्नेन स्वागतं, परिषदीय विद्यालयेषु नूतनसत्रस्य जातः उत्साहपूर्णः शुभारम्भः


देवरिया, 02 जुलाईमासः (हि.स.)।

ग्रीष्मकालस्य दीर्घावकाशस्य अनन्तरं गुरुवासरे देवरियाजनपदस्य परिषदीयविद्यालयेषु नूतनशैक्षणिकसत्रस्य प्रारम्भः उत्साहेन उल्लासेन पारम्परिकस्वागतेन च अभवत्। जनपदस्य द्विसहस्रमेकशतैकविंशति परिषदीयविद्यालयेषु छात्रछात्राणां तिलकधारणेन पुष्पवृष्ट्या माल्यार्पणेन मिष्टान्नवितरणेन च स्वागतं कृतम्। प्रथमदिने एव विद्यालयेषु बालकानां सन्तोषजनकः उपस्थितिप्रमाणः दृष्टः, येन शिक्षकेषु अभिभावकेषु च उत्साहः दृश्यते स्म।

लारविकासखण्डस्य बीआरसीस्थिते कम्पोजिटविद्यालये खण्डशिक्षाधिकारी अमितकुमारसिंहस्य अधिशास्यधिकारी अमितकुमारसिंहस्य च उपस्थितौ प्रधानाध्यापकः शिक्षकाः च विद्यालयस्य मुख्यद्वारे विद्यार्थिनां स्वागतं कृतवन्तः। कम्पोजिटविद्यालये करमुआ राउतपारअमेठिया रामनगरे तथा अन्यविद्यालयेषु अपि रोलीचन्दनतिलकं विधाय पुष्पवृष्टिं कृत्वा बालकेभ्यः नूतनसत्रस्य शुभकामनाः प्रदत्ताः।

पीएमश्री कनिष्ठउच्चविद्यालये प्रधानाध्यापकः भीमप्रसादप्रजापतिः विद्यार्थिनां माल्यार्पणं कृत्वा तेषाम् उत्साहं वर्धितवान्। तथा च प्राथमिकविद्यालये पकहास्थिते प्रभारीप्रधानाध्यापकस्य नेबुलालप्रसादस्य नेतृत्वे स्वागतकार्यक्रमः आयोजितः, यस्मिन् बालकेभ्यः मिष्टान्नं वितर्य अध्ययनस्य प्रति प्रेरणा प्रदत्ता।

**कस्तूरबागान्धीआवासीयबालिकाविद्यालये बघौचघाटस्थिते वार्डन अर्चनायादवा छात्राणां सस्नेहं स्वागतं कृत्वा नियमिताध्ययनस्य अनुशासनस्य उत्कृष्टप्रदर्शनस्य च संकल्पं कारितवती। विद्यालयेषु प्रथमदिनस्य उत्साहपूर्णः वातावरणः बालकानां मुखेषु स्पष्टतया दृश्यते स्म। शिक्षकैः नूतनशैक्षणिकसत्रं ज्ञानस्य संस्कारस्य सफलतायाश्च नूतनाध्यायरूपेण निरूपितम्।

Hindusthan Samachar / Dheeraj Maithani