यूनां साहस:, परिश्रमश्च विकसितभारतस्य महत्तमा शक्तिः – मोदी
नवदेहली, २० जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी भारतस्य यूनां साहसस्य, आत्मविश्वासस्य दृढसंकल्पस्य च प्रशंसां कुर्वन् सोमवासरे संस्कृत-सुभाषितम् एकं सामाजिकमाध्यम-मञ्चे एक्स इति प्रसारितवान्। सः अवदत् यत् अद्य देशस्य युवानः स्वसाहसेन, संस
प्रधानमंत्री नरेन्द्र मोदी


नवदेहली, २० जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी भारतस्य यूनां साहसस्य, आत्मविश्वासस्य दृढसंकल्पस्य च प्रशंसां कुर्वन् सोमवासरे संस्कृत-सुभाषितम् एकं सामाजिकमाध्यम-मञ्चे एक्स इति प्रसारितवान्। सः अवदत् यत् अद्य देशस्य युवानः स्वसाहसेन, संसाधनानां प्रभावी-उपयोगेन अथक-परिश्रमेण च ऐतिहासिकसफलताः सम्प्राप्नुवन्ति, याः विकसितभारतस्य महत्तमा शक्तिः भूत्वा उद्भवन्ति।

प्रधानमन्त्री सामाजिकमाध्यम-मञ्चे एक्स इति अलिखत्—

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विचति चाप्रमत्तः।दुःखं च काले सहते महात्मा धुरंधरस्तस्य जिताः सपत्नाः॥

अस्य अर्थः— यः महात्मा प्रतिकूलपरिस्थितिष्वपि कदापि न विचलति, सर्वदा सावधानतया स्वकार्ये निरन्तरं प्रवृत्तः तिष्ठति, कठिनसमयं च धैर्येण सहते, तस्य शत्रवः पूर्वमेव पराजिताः मन्यन्ते।

प्रधानमन्त्री अवदत् यत् अद्य भारतस्य युवानः स्वसाहसेन, आत्मविश्वासेन कठिनपरिश्रमेण च नूतनाः उपलब्धीः सम्प्राप्नुवन्ति। तेन विश्वासः व्यक्तीकृतः यत् यूनां एषा एव ऊर्जा, दृढसंकल्पः कर्मठता च विकसितभारतस्य निर्माणे महत्तमा शक्तिः अस्ति।

/ अंशु गुप्ता