राष्ट्रिय बैडमिंटनक्रीडकः आमान खानश्शिक्षाक्रीडयोः उदनयद्ध्वजं, दिल्ल्याः हिंदू कॉलेज इत्यत्र अमिलत्तस्मै प्रवेशः
रायगढ़म्, 20 जुलाईमासः (हि.स.)। रायगढस्य राष्ट्रियबैडमिण्टनक्रीडकः आमान खान क्रीडाक्षेत्रे शिक्षाक्षेत्रे च उत्कृष्टां सफलतां प्राप्य छत्तीसगढस्य रायगढजनपदस्य नाम राष्ट्रियस्तरे गौरवान्वितवान्। प्रसिद्धस्य बैडमिण्टनप्रशिक्षकस्य अकरम खान महोदयस्य
आमान खान


रायगढ़म्, 20 जुलाईमासः (हि.स.)।

रायगढस्य राष्ट्रियबैडमिण्टनक्रीडकः आमान खान क्रीडाक्षेत्रे शिक्षाक्षेत्रे च उत्कृष्टां सफलतां प्राप्य छत्तीसगढस्य रायगढजनपदस्य नाम राष्ट्रियस्तरे गौरवान्वितवान्। प्रसिद्धस्य बैडमिण्टनप्रशिक्षकस्य अकरम खान महोदयस्य पुत्रः आमान दिल्लीविश्वविद्यालयस्य प्रतिष्ठिते हिन्दू महाविद्यालये इतिहासविषये स्नातकाध्ययनार्थं प्रवेशं प्राप्तवान्।

आमान खान बाल्यकालात् एव स्वपितरं क्रीडकान् प्रशिक्षयन्तं दृष्टवान्, येन तस्य मनसि बैडमिण्टनक्रीडायाः प्रति गाढा रुचिः अभवत्। स्वपरिश्रमेण अनुशासनेन च सः अनेकासु राज्यस्तरीयासु राष्ट्रियस्तरीयासु च स्पर्धासु उत्कृष्टं प्रदर्शनं कृतवान्। अधुना सः राष्ट्रियबैडमिण्टनक्रमाङ्कने द्विचत्वारिंशत्तमे स्थाने वर्तते। उत्कृष्टप्रदर्शनस्य कृते तं जनपदप्रशासनेन बहुवारं अगस्तमासस्य पञ्चदशदिने गणतन्त्रदिवससमारोहेषु च सम्मानितम्।

दिल्ली वर्ल्ड पब्लिक स्कूलस्य छात्रः आमान खान सीबीएसई द्वादशकक्षायाः परीक्षायां ९८ दशमलव ६ प्रतिशताङ्कान् प्राप्तवान्। ततः परं सीयूईटी सामान्यविश्वविद्यालयप्रवेशपरीक्षायां इतिहास भूगोल राजनीतिशास्त्र अङ्ग्लभाषा च एतेषु विषयेषु ९९ पर्सेन्टाइल तथा ९०३ दशमलव ४६ अङ्कान् प्राप्तवान्। एतेन उत्कृष्टेन प्रदर्शनेन सः दिल्लीविश्वविद्यालयस्य प्रतिष्ठिते हिन्दू महाविद्यालये प्रथमचरणे एव प्रवेशं प्राप्तवान्।

आमान खान अवदत् यत् इतिहासविषये उच्चशिक्षां प्राप्य भविष्ये प्रशासनिकसेवायां योगदानं दातुम् इच्छति। तेन सह सः पुरातत्त्वक्षेत्रे अपि कार्यं कर्तुम् इच्छति। तस्य मतम् अस्ति यत् समयस्य सम्यक् व्यवस्थापनम् अनुशासनं निरन्तरः परिश्रमश्च सफलतायाः दृढतमा कुञ्जिका अस्ति।

आमान अवदत् यत् सः महाविद्यालयस्य अध्ययनस्य सह बैडमिण्टनक्रीडामपि पूर्णनिष्ठया निरन्तरं करिष्यति। तस्य एषा उपलब्धिः एतत् प्रमाणयति यत् यदि लक्ष्यं स्पष्टं भवेत्, परिश्रमः निष्कपटः भवेत्, परिवारस्य शिक्षकाणां च समुचितं मार्गदर्शनं लभ्येत, तर्हि सफलता नूनमेव प्राप्ता भवति। अद्य आमान खान केवलं रायगढस्य न, अपितु सम्पूर्णस्य छत्तीसगढस्य युवजनानां कृते प्रेरणायाः सशक्तम् उदाहरणं जातः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani