मुख्यमंत्री विष्णुदेव सायोऽद्य रायपुरस्य दुर्गजनपदस्य च भ्रमणे
रायपुरम्, 20 जुलाईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे रायपुरदुर्गजनपदयोः प्रवासं करिष्यन्ति। प्रातः ११:३० वादने ते मुख्यमन्त्रिनिवासे आयोज्यमानायां उपवेशने सहभागिनः भविष्यन्ति। ततः अपराह्णे १२:३० वादने दुर्गजनपदस्य जामग्रामे (ए
मुख्यमंत्री विष्णुदेव साय ,फाइल फोटो


रायपुरम्, 20 जुलाईमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे रायपुरदुर्गजनपदयोः प्रवासं करिष्यन्ति। प्रातः ११:३० वादने ते मुख्यमन्त्रिनिवासे आयोज्यमानायां उपवेशने सहभागिनः भविष्यन्ति। ततः अपराह्णे १२:३० वादने दुर्गजनपदस्य जामग्रामे (एम) आयोज्यमाने राज्यस्तरीये शालाप्रवेशोत्सवे सहभागिनः भविष्यन्ति। अपराह्णे २:४५ वादने मुख्यमन्त्री इन्दिरागान्धीकृषिविश्वविद्यालयस्य कृषकसभागारं प्राप्य गोसेवासङ्गमकार्यक्रमे सहभागं करिष्यन्ति।

दुर्गजनपदस्य जामग्रामे (एम) अद्य अपराह्णे १२ वादनात् राज्यस्तरीयः शालाप्रवेशोत्सवः आयोज्यते। मुख्यमन्त्री विष्णुदेवसायः कार्यक्रमस्य शुभारम्भं करिष्यन्ति तथा नवप्रविष्टबालकबालिकानां तिलकं विधाय आत्मीयतया स्वागतं करिष्यन्ति। अस्मिन् कार्यक्रमे उपमुख्यमन्त्री विजयशर्मा, विद्यालयशिक्षामन्त्री गजेन्द्रयादवः, पाटनविधानसभाक्षेत्रस्य विधायकः तथा पूर्वमुख्यमन्त्री भूपेशबघेलः अपि उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Dheeraj Maithani