Enter your Email Address to subscribe to our newsletters

रायपुरम् 20 जुलाईमासः (हि.स.)।
विद्यालयशिक्षाविभागेन शैक्षणिकसत्राय २०२६–२७ राज्यस्तरीयः शालाप्रवेशोत्सवः अद्य सोमवासरे दुर्गजनपदस्य पाटनविकासखण्डस्थिते स्वामी आत्मानन्द उत्कृष्ट आङ्ग्लमाध्यमविद्यालये जामग्रामे (एम) आयोज्यते। अपराह्णे १२ वादने आरभ्यमाणस्य अस्य कार्यक्रमस्य मुख्यातिथिः मुख्यमन्त्री विष्णुदेवसायः भविष्यति। उपमुख्यमन्त्री तथा दुर्गजनपदस्य प्रभारीमन्त्री विजयशर्मा अतिविशिष्टातिथिरूपेण सहभागी भविष्यति, विद्यालयशिक्षामन्त्री गजेन्द्रयादवः च कार्यक्रमस्य अध्यक्षतां करिष्यति।
कार्यक्रमस्य समये मुख्यमन्त्री विष्णुदेवसायः अन्ये च अतिथयः प्रथमवारं विद्यालये प्रविशन्तः बालकबालिकाः तिलकं विधाय मुखं मधुरद्रव्येण मधुरं कारयित्वा आत्मीयतया स्वागतं करिष्यन्ति। शालाप्रवेशोत्सवस्य उद्देश्यं बालकेषु शिक्षायाः प्रति उत्साहवर्धनम्, विद्यालयेषु शतप्रतिशतनामाङ्कनस्य सुनिश्चितीकरणम्, शिक्षायाः प्रति समाजे सकारात्मकवातावरणस्य निर्माणं च अस्ति।
अस्मिन् समारोहे विशिष्टातिथिरूपेण दुर्गलोकसभाक्षेत्रस्य सांसदः विजयबघेलः, पाटनविधानसभाक्षेत्रस्य विधायकः तथा पूर्वमुख्यमन्त्री भूपेशबघेलः, दुर्गग्रामीणविधानसभाक्षेत्रस्य विधायकः ललितचन्द्राकरः, अहिवाराविधानसभाक्षेत्रस्य विधायकः डोमनलालकोर्सेवाडा, वैशालीनगरविधानसभाक्षेत्रस्य विधायकः रिकेशसेनः, भिलाईनगरविधानसभाक्षेत्रस्य विधायकः देवेन्द्रयादवः, साजाविधानसभाक्षेत्रस्य विधायकः ईश्वरसाहुः, छत्तीसगढखादीग्रामोद्योगमण्डलस्य अध्यक्षः राकेशपाण्डेयः तथा तेलघानीविकासमण्डलस्य अध्यक्षः जितेन्द्रसाहुः अपि उपस्थिताः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani