Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जुलाईमासः (हि.स.)। लोकसभायां विपक्ष-नेता राहुल-गान्धी नीट-यूजी-समेत-विविध-परीक्षासु प्रश्नपत्र-प्रस्रवणम् तथा प्रदर्शनरत-विद्यार्थिषु आरक्षक-कार्यवाहीम् अधिकृत्य सर्वकारम् विद्यार्थिनाम् स्वर-दमनस्य दोषिणां संरक्षणस्य च आरोपम् अकरोत्। सः अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदी देशस्य सर्वाधिकः युवा-विरोधी प्रधानमन्त्री अस्ति। स्वयाचनानां समर्थनार्थं प्रदर्शनं कुर्वत्सु विद्यार्थिषु दण्ड-प्रहारः अश्रु-वाते: प्रयोगश्च लोकतान्त्रिक-मूल्यानां विरुद्धः अस्ति।
राहुल-गान्धी सोमवासरे एकस्मिन् दृश्य-सन्देशे अवदत् यत् देशस्य बृहत्तमा जनसंख्या युवानः सन्ति, किन्तु सर्वकारः तेषामधिकाराणां संरक्षणस्य स्थाने तेषां स्वर-दमनमेव करोति। देहली-नगरस्य मार्गेषु अवतीर्णाः विद्यार्थिनः अपराधिनः न, अपितु स्वाधिकाराणां याचनां कुर्वन्ति। तेषां अपेक्षा अस्ति यत् तेभ्यः सम्मानजनका, निष्पक्षा तथा प्रभाविनी शिक्षा-व्यवस्था प्रदीयेत।
काङ्ग्रेस-दलस्य नेता अवदत् यत् विद्यार्थिनां शान्तिपूर्णं प्रदर्शनं सर्वथा न्याय्यम् अस्ति। तेषु अश्रु-वाति-गोलकान् प्रक्षेपणं दण्ड-प्रहारं च करणं न लोकतान्त्रिकः उपायः, न च भारतीय-परम्परायाः अनुरूपम्। सर्वकारेण विद्यार्थिनां याचना: स्वीकृत्य शिक्षा-व्यवस्थायाः सुधारार्थं दृढ-पदक्षेपाः स्वीकर्तव्याः।
Hindusthan Samachar / Divya Ranjan