दिल्ली सर्वकारो दत्तवान् ‘परिवर्तन’ योजनायै सहमतताम् , पुरातनानां व्यावसायिक वाहनानां परिवर्तने आकर्षकं प्रोत्साहनम्
नव दिल्ली, 20 जुलाईमासः (हि.स.)। दिल्लीसर्वकारेण केन्द्रसर्कारस्य सडकपरिवहनमार्गमन्त्रालयस्य परिवर्तन योजना दिल्ल्यां प्रवर्तयितुं तस्य समर्थनं च कर्तुं प्रस्तावः अनुमोदितः। परिवर्तन योजना परिवहनेन जन्यमानस्य वायुप्रदूषणस्य जालोत्पन्नोत्सर्जनस्य
मुख्यमंत्री रेखा गुप्ता मंगलवार को  दिल्ली सचिवालय में मीडिया को संबोधित करते हुए


नव दिल्ली, 20 जुलाईमासः (हि.स.)।

दिल्लीसर्वकारेण केन्द्रसर्कारस्य सडकपरिवहनमार्गमन्त्रालयस्य परिवर्तन योजना दिल्ल्यां प्रवर्तयितुं तस्य समर्थनं च कर्तुं प्रस्तावः अनुमोदितः। परिवर्तन योजना परिवहनेन जन्यमानस्य वायुप्रदूषणस्य जालोत्पन्नोत्सर्जनस्य च न्यूनीकरणाय वाहनसम्पत्तीनां शीघ्रनवीनीकरणप्रोत्साहनकार्यक्रमः अस्ति।

मुख्यमन्त्री रेखा गुप्ता सोमवासरे विज्ञप्तिं प्रकाशितवती यत् एषा योजना पुरातनान् प्रदूषणकारिणः ट्रकान् बसान् च निष्कास्य तेषां स्थाने बीएस ६ अथवा ततः अपि कठोरप्रदूषणमानकानां पालनशीलान् अथवा विद्युद्वाहनान् प्रोत्साहयितुं प्रवर्तिता अस्ति। एषा स्वीकृतिः अद्यतनमन्त्रिमण्डलस्य उपवेशने प्रदत्ता।

मुख्यमन्त्री उक्तवती यत् एषा योजना दिल्ली एनसीआर क्षेत्रे पुरातनान् अधिकप्रदूषणकारिणः ट्रकान् बसान् च निष्कास्य तेषां स्थाने बीएस ६ अथवा ततः अपि कठोरोत्सर्जनमानकपालकान् अथवा विद्युद्वाहनान् प्रोत्साहयितुं महत्त्वपूर्णं पदम् अस्ति। अनेन राजधानीनगरे स्वच्छपरिवहनव्यवस्था सुदृढा भविष्यति। व्यावसायिकवाहनानाम् आधुनिकीकरणस्य प्रवर्धनं भविष्यति तथा वायुप्रदूषणन्यूनीकरणे अपि साहाय्यं भविष्यति।

सा अवदत् यत् योजनानुसारं यदि कश्चन वाहनस्वामी स्वस्य बीएस ४ अथवा ततः अधः स्थितं लघुमालवाहनम् अपकर्षणार्थं समर्प्य नूतनं विद्युद्लघुमालवाहनं क्रीणाति तर्हि तस्मै दिल्लीसर्कारेण दशवर्षपर्यन्तं शतप्रतिशतमोटरवाहनकरमुक्तिः शतप्रतिशतपञ्जीकरणशुल्कमुक्तिः च प्रदास्यते। एतेन सह ऋणव्याजे पञ्चप्रतिशतसहायताराशिः वाहननिर्मातृसंस्थया अष्टप्रतिशतविशेषरियायतः ईन्धनकूपनं अथवा ईन्धनकूपनस्य रियायतीमूल्यसमतुल्यः एककालिकलाभः च प्रदास्यते।

यदि नूतनविद्युद्वाहनस्य स्थाने पुरातनविद्युद्वाहनं क्रीयते तर्हि लाभग्राहिणे दशवर्षपर्यन्तं पञ्चाशत्प्रतिशतमोटरवाहनकरमुक्तिः ऋणव्याजे पञ्चप्रतिशतसहायताराशिः ईन्धनकूपनस्य रियायतीमूल्यसमतुल्यः एककालिकलाभः च प्रदास्यते।

योजनायां बीएस ४ अथवा ततः अधः स्थितानि मध्यममालवाहनानि गुरुमालवाहनानि च अपि परिवर्तयितुं शक्यन्ते। एतानि वाहनानि अपकर्ष्य नूतनं बीएस ६ अथवा ततः अपि कठोरोत्सर्जनमानकपालकं विद्युद्मालवाहनं वा क्रीत्वा दशवर्षपर्यन्तं शतप्रतिशतमोटरवाहनकरमुक्तिः शतप्रतिशतपञ्जीकरणशुल्कमुक्तिः ऋणव्याजे पञ्चप्रतिशतसहायताराशिः वाहननिर्मातृसंस्थया अष्टप्रतिशतविशेषरियायतः ईन्धनकूपनं अथवा तस्य रियायतीमूल्यसमतुल्यः एककालिकलाभः च प्राप्स्यते।

यदि नूतनवाहनस्य स्थाने पुरातनं बीएस ६ अथवा विद्युद्मालवाहनं क्रीयते तर्हि दशवर्षपर्यन्तं पञ्चाशत्प्रतिशतमोटरवाहनकरमुक्तिः ऋणव्याजे पञ्चप्रतिशतसहायताराशिः ईन्धनकूपनस्य तस्य रियायतीमूल्यसमतुल्यः एककालिकलाभः च प्रदास्यते।

मुख्यमन्त्री उक्तवती यत् अस्यां योजनायां पुरातनाः बीएस ४ अथवा ततः अधः स्थिताः बसाः अपि समाविष्टाः सन्ति। एताः बसाः केवलं बीएस ६ सीएनजी बसैः अथवा विद्युद्बसैः एव प्रतिस्थापयितुं शक्यन्ते। ताभ्यः अपि मालवाहनानामिव सर्वे लाभाः प्रदास्यन्ते।

सा अवदत् यत् योजनायां अपकर्षणार्थं पात्राणां वाहनानां एकवर्षात् अधिककालपर्यन्तं लम्बितवाहनकरस्य फिटनेसदण्डस्य च देयतासु अपि राहतिः प्रदास्यते। एतदतिरिक्तं ये बीएस ४ वाहनाः अस्याः योजनायाः अन्तर्गतं परिवर्तनीयाः सन्ति तेषां कृते अनिवार्यतया अपकर्षणं आवश्यकं न भविष्यति। एतानि वाहनानि एनसीआर क्षेत्रात् बहिः स्थितेषु नॉन एनसीएपी नगरेषु अपि विक्रेतुं शक्यन्ते। नॉन एनसीएपी इत्यस्य अभिप्रायः ते नगराः ये राष्ट्रीयस्वच्छवायुकार्यक्रमस्य सूच्यां न सन्ति।

मुख्यमन्त्री उक्तवती यत् अस्याः योजनायाः माध्यमेन दिल्ली एनसीआर क्षेत्रस्य प्रायः द्विलक्षसप्तसहस्र ट्रकबसस्वामिनः लाभान्विताः भविष्यन्ति। अनेन बहुसंख्यकाः पुरातनाः अधिकप्रदूषणकारिणः व्यावसायिकवाहनाः स्वच्छैः आधुनिकवाहनैः प्रतिस्थापिताः भविष्यन्ति येन वायुप्रदूषणे न्यूनता भविष्यति।

सा पुनरुक्तवती यत् दिल्लीसर्वकारः स्वच्छपरिवहनस्य प्रवर्धने पूर्णतया प्रतिबद्धः अस्ति। एतमेव उद्देश्यम् अधिगम्य योजनायां व्यवस्था कृता यत् दिल्लीनगरे अस्याः योजनायाः अन्तर्गतं क्रीयमाणानि सर्वाणि लघुमालवाहनानि केवलं विद्युद्वाहनानि एव भविष्यन्ति। बसानां कृते केवलं बीएस ६ सीएनजी अथवा विद्युद्वाहनानामेव अनुमतिः भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani