Enter your Email Address to subscribe to our newsletters

शिमला, 20 जुलाईमासः (हि.स.)।
हिमाचलप्रदेशमन्त्रिमण्डलस्य एका महत्त्वपूर्णा उपवेशनम् अद्य सोमवासरे मुख्यमन्त्रिणः सुखविन्द्रसिंहसुक्खूस्य अध्यक्षतायां शिमलानगरे भविष्यति। अस्मिन् उपवेशने पञ्चाशताधिकेषु कार्यसूचीविषयेषु चर्चा भवितुमर्हति। विधानसभायाः वर्षाकालीनसत्रस्य तिथीनां घोषणायाः, प्रदेशस्य वित्तीयस्थितेः समीक्षायाः, शासकीयनियुक्तीनां तथा उद्यानपालकैः सम्बद्धानां बहूनां महत्त्वपूर्णविषयाणां विषये शासनं निर्णयं कर्तुं शक्नोति।
उपवेशने अगस्तमासे प्रस्तावितस्य विधानसभायाः आगामिवर्षाकालीनसत्रस्य तिथीनिर्धारणसम्बद्धः प्रस्तावः अपि प्रस्तुतः भविष्यति। शासनम् अस्मिन्नेव उपवेशने सत्रस्य अवधेः सम्भावितकार्यक्रमस्य च अन्तिमनिर्णयं कर्तुं शक्नोति।
मन्त्रिमण्डलस्य उपवेशने नवीनपदेषु नियुक्तिसम्बद्धेषु प्रस्तावेषु अपि विचारः भविष्यति। एतेन सह सेवफलस्य अन्येषां फलानां च न्यूनतमसमर्थनमूल्यस्य वृद्धेः विषयः अपि मन्त्रिमण्डलस्य कार्यसूच्याम् अन्तर्भूतः अस्ति। सेवफलसंग्रहकालस्य आरम्भे एषः निर्णयः प्रदेशस्य उद्यानपालकानां कृते अत्यन्तं महत्त्वपूर्णः मन्यते।
मुख्यमन्त्रिणः प्राथमिकस्वीकृतेः अनन्तरं उद्यानपालनविभागेन मण्डीमध्यस्थतायोजनायाः नवीनाः नियमाः निर्मिताः सन्ति। ते अनुमोदनार्थं मन्त्रिमण्डलस्य पुरतः प्रस्तुताः भविष्यन्ति। यदि मन्त्रिमण्डलं एतान् प्रस्तावान् अनुमोदिष्यति तर्हि संशोधितनियमानां नवीनन्यूनतमसमर्थनमूल्यदराणां च प्रवर्तनप्रक्रिया अग्रे प्रसरिष्यति।
उपवेशने अर्थसङ्कल्पे घोषितां एकां लोककल्याणयोजनां प्रवर्तयितुं मन्त्रिमण्डलस्य अनुमोदनम् अपि गृहीष्यते। शासनं योजनायाः प्रवर्तनार्थम् आवश्यकौपचारिकतानां सम्पादनविषये निर्णयं कर्तुं शक्नोति।
अस्मिन् अवसरे वित्तविभागः प्रदेशस्य वर्तमानवित्तीयस्थितेः विषये विस्तृतां प्रतिवेदनं मन्त्रिमण्डलस्य पुरतः प्रस्तुतं करिष्यति। शासनं राजस्वस्य, व्ययस्य, वित्तीयसंसाधनानां च स्थितेः समीक्षां करिष्यति। तस्य आधारेण आगामिकाले वित्तीयप्राथमिकतासु तथा व्ययसम्बद्धविषयेषु अपि चर्चा भवितुमर्हति।
---------------
Hindusthan Samachar / Dheeraj Maithani