पूर्वप्रधानमन्त्रिणः देवेगौडा-इत्यस्य पत्न्याः चेन्नम्मायाः अद्य राजकीयसम्मानेन सह अन्त्येष्टिः भविष्यति
हासनम् (कर्नाटकराज्यम्), २० जुलाईमास: (हि.स.)। भारतस्य पूर्वप्रधानमन्त्रिणः एच.डी. देवेगौडा-इत्यस्य पत्न्याः चेन्नम्मा-देवेगौडायाः अन्त्येष्टिः अद्य कर्नाटकराज्यस्य हासन-जनपदस्य होलेनरसीपुर-सम्बद्धस्य हरदनहल्ली-समीपे स्थितस्य क्यातनहल्ली-ग्रामस्य ब
चन्नम्मा देवेगौड़ा पाइल फोटो


हासनम् (कर्नाटकराज्यम्), २० जुलाईमास: (हि.स.)। भारतस्य पूर्वप्रधानमन्त्रिणः एच.डी. देवेगौडा-इत्यस्य पत्न्याः चेन्नम्मा-देवेगौडायाः अन्त्येष्टिः अद्य कर्नाटकराज्यस्य हासन-जनपदस्य होलेनरसीपुर-सम्बद्धस्य हरदनहल्ली-समीपे स्थितस्य क्यातनहल्ली-ग्रामस्य बेट्टद-रङ्गनाथस्वामि-मन्दिरस्य पादप्रदेशे राजकीयसम्मानेन सह सम्पन्ना भविष्यति। तासां शनिवासरे निधनम् अभवत्। तासां पार्थिवशरीरं होलेनरसीपुर-स्थिते एच.डी. रेवन्नस्य निवासे अन्तिमदर्शनार्थं स्थापितम् अस्ति। परिवारजनाः, बान्धवाः, राजनैतिकनेतारः तथा बहुसंख्यकाः जनाः श्रद्धाञ्जलिम् अर्पयन्ति।

अन्त्येष्ट्यर्थं जनपदप्रशासनेन परिवारेण च सर्वाः आवश्यकव्यवस्थाः सम्पन्नाः सन्ति। बेट्टद-रङ्गनाथस्वामि-मन्दिरस्य पादप्रदेशे विशालः मण्डपः स्थापितः अस्ति तथा प्रायः त्रिंशत्सहस्रजनानां उपवेशनस्य व्यवस्था कृता अस्ति। सामान्यजनानां विशिष्टातिथीनां च सुविधार्थम् आवश्यकाः आधारभूतव्यवस्थाः अपि कृताः सन्ति।

मध्यान्हे द्विवादनानन्तरं धार्मिक-अनुष्ठानानि प्रारभ्यन्ते। बेङ्गलूरुनगरस्य जे.पी.-नगरस्थितस्य कनकगिरि-श्रीलक्ष्मीनारायणस्वामि-मन्दिरस्य प्रधानपूजारीण: कन्नन-स्वामी इत्यस्य नेतृत्वे अन्त्येष्टेः धार्मिकविधयः सम्पन्नाः भविष्यन्ति। ततः परं मध्यान्हे त्रिवादनानन्तरं राजकीयसम्मानेन सह अन्तिमविदायः प्रदास्यते तथा सायं सार्धचतुर्वादनपर्यन्तम् अन्त्येष्टिकर्म सम्पूर्णं कर्तुं निर्णयः कृतः अस्ति।

चेन्नम्मा-देवेगौडा दीर्घकालपर्यन्तं होलेनरसीपुर-प्रदेशे अवसत्। हालेकोटे, मुत्तिगे-हिरीहल्ली, हरदनहल्ली तथा समीपवर्तिग्रामेषु निवसद्भिः जनैः सह तासां आत्मीयः सम्बन्धः आसीत्। अतः परिवारेण विचारविमर्शानन्तरं बेट्टद-रङ्गनाथस्वामि-मन्दिरस्य पादप्रदेशः अन्त्येष्टिस्थलत्वेन चयनितः। अस्मिन्नेव स्थले भविष्ये चेन्नम्मा-देवेगौडायाः स्मारकनिर्माणस्य अपि विचारः क्रियते। एतां सूचनां तासां जामाता सांसदः डॉ. सी.एन. मञ्जूनाथः अददात्।

अन्त्येष्टौ मुख्यमन्त्री डी.के. शिवकुमारः, केन्द्रीयमन्त्री प्रह्लाद-जोशी, वी. सोमन्ना, शिवराजसिंह-चौहानः, मनोहरलाल-खट्टरः, विधानसभायां विपक्षनेता आर. अशोकः, विधानपरिषदि विपक्षनेता चलवाडी-नारायणस्वामी, भाजपाप्रदेशाध्यक्षः बी.वाई. विजयेंद्रः, सांसदः बी.वाई. राघवेन्द्रः सहिताः अनेके गणमान्यजनाः सहभागिनः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan