केशियाड्यां विद्वत् सम्मेलनम् , नागरिक कर्तव्ये राष्ट्र चेतनायां च मथनम्
मेदिनीपुरम्, 20 जुलाईमासः (हि. स.)।मध्यप्रदेशविधानसभायाः वर्षाकालीनसत्रम् अद्य आरभ्यते। २४ जुलैपर्यन्तं प्रवर्तमाने अस्मिन् पञ्चदिवसीयसत्रे राज्यसर्वकारेण २०२६ २७ वित्तीयवर्षस्य प्रथमम् अनुपूरकवित्तपत्रेण सह समाननागरिकसंहितां सहितानि कुलतः चतुर्दश
केशियाड़ी में विद्वत सम्मेलन


केशियाड़ी में विद्वत सम्मेलन


मेदिनीपुरम्, 20 जुलाईमासः (हि. स.)।मध्यप्रदेशविधानसभायाः वर्षाकालीनसत्रम् अद्य आरभ्यते। २४ जुलैपर्यन्तं प्रवर्तमाने अस्मिन् पञ्चदिवसीयसत्रे राज्यसर्वकारेण २०२६ २७ वित्तीयवर्षस्य प्रथमम् अनुपूरकवित्तपत्रेण सह समाननागरिकसंहितां सहितानि कुलतः चतुर्दश विधेयकानि प्रस्तूयन्ते।

अपरतः प्रमुखविपक्षदलम् कांग्रेस उज्जयिनीभूमिक्रयप्रकरणम्, विधिव्यवस्था, बेरोजगारी, भ्रष्टाचारः, कृषकसमस्याः, ओबीसी आरक्षणम्, विद्युत्संकटम् तथा केन बेतवा परियोजनया प्रभावितानां जनानां विस्थापनम् इत्यादिषु विषयेषु सर्वकारं परिवेष्टयितुं सिद्धतां कृतवती अस्ति।

विधानसभायाः वर्षाकालीनसत्रे सर्वकारः समाननागरिकसंहिताविधेयकं प्रस्तोष्यति। रविवासरे जगदीशपुरे सम्पन्नायां मन्त्रिपरिषदः उपवेशने अस्य विधेयकस्य प्रारूपेण सह अन्येषां बहूनां विधेयकानाम् अनुमोदनं कृतम्। सर्वकारः निजीविश्वविद्यालयाधिनियमसंशोधनविधेयकम्, मध्यप्रदेशअग्निशमनआपत्कालीनसेवाविधेयकम्, राजमार्गसंशोधनविधेयकम्, नागरिकसुरक्षासंहितासंशोधनविधेयकम् तथा अन्यानि विधेयकानि अपि सदसि प्रस्तोष्यति। मध्यप्रदेशसर्वकारः वित्तीयवर्षस्य प्रथमम् अनुपूरकवित्तपत्रं २१ जुलै दिनाङ्के विधानसभायां प्रस्तोष्यति। एतत् वित्तपत्रं सप्तसहस्रकोटिरूप्यकपरिमितं भविष्यति। अस्मिन् पूंजीनिवेशः तथा आधारसंरचनाविकासः विशेषतया प्रोत्साह्यते।

सत्रस्य अधिसूचना प्रकाशितात् आरभ्य अद्यपर्यन्तं विधानसभासचिवालये ताराङ्कितप्रश्नानां ९००, अताराङ्कितप्रश्नानां ८५६, एवं कुलतः १७५६ प्रश्नानां सूचनाः प्राप्ताः। तथा २६७ ध्यानाकर्षणसूचनाः, पञ्च स्थगनप्रस्तावाः, विंशतिः अशासकीयसंकल्पाः तथा ७७ शून्यकालसूचनाः अपि प्राप्ताः। उल्लेखनीयम् अस्ति यत् मध्यप्रदेशस्य षोडशी विधानसभायाः एतत् एकादशं सत्रं भविष्यति।

विपक्षेण सत्रं प्रति स्वरणनीतिः पूर्वमेव सिद्धा कृता अस्ति। कांग्रेस विधिव्यवस्थायाः स्थितिः, वर्धमानाः अपराधाः, बेरोजगारी, भ्रष्टाचारः, कृषकसमस्याः, सस्यहानिः, ओबीसी वर्गस्य २७ प्रतिशतआरक्षणम्, विद्युत्प्रदायः, महार्घता तथा शिक्षास्वास्थ्यसम्बद्धविषयेषु सर्वकारात् उत्तरं याचिष्यति। एतदतिरिक्तं केन बेतवा परियोजनार्थं भूम्यधिग्रहणम् तथा प्रभावितग्रामीणानां कथितबलात् निष्कासनस्य विषयम् अपि सदसि दृढतया उत्थापयितुं सिद्धता कृता अस्ति। अपरतः सत्तापक्षेण अपि स्वसदस्येभ्यः विपक्षस्य प्रश्नानां तथ्याधारितम् उत्तरं दातुम् निर्देशः प्रदत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani