Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 जुलाईमासः (हि.स.)।लोकसभाध्यक्षः ओम बिरला सोमवासरात् आरभ्यमाणस्य अष्टादशलोकसभायाः अष्टमस्य वर्षाकालीनसत्रस्य सफलसञ्चालनार्थं सर्वान् सांसदान् सकारात्मकसहयोगाय रचनात्मकसहभागितायै च आह्वानं कृतवान्।
सः अवदत् यत् संसदः लोकतन्त्रस्य सर्वोच्चं मन्दिरम् अस्ति तथा एतत् सत्रं जनहितराष्ट्रहितसम्बद्धानां विषयाणां सार्थकचर्चायाः प्रभाविवैधानिककार्यवाह्याः च महत्त्वपूर्णम् अवसरम् अस्ति।
बिरला आशां व्यक्तवान् यत् सर्वे सदस्याः संविधानस्य भावनां संसदीयपरम्पराणां मर्यादानां च सम्मानं कुर्वन्तः सदनस्य कार्यवाह्यां सक्रियतया सहभागितां निर्वहिष्यन्ति। उल्लेखनीयम् अस्ति यत् ह्यः सायंकाले संसदपरिसरे लोकसभायाः कार्यमन्त्रणासमितेः उपवेशनम् अभवत्। अद्य प्रातः अध्यक्षः बिरला तस्य उपवेशनस्य चित्रम् सामाजिकमाध्यमे प्रकाशित्य एकस्मिन् सन्देशे एताम् अपीलां कृतवान्।
लोकसभाध्यक्षः वर्षाकालीनसत्रस्य आरम्भे प्रकाशिते सन्देशे उक्तवान् यत् दिल्लीनगरे जाता वर्षा वातावरणं नवीनया ऊर्जया ताजगीभावेन च परिपूरितवती। संसदः देशस्य जनाकाङ्क्षाणां आशानां विश्वासस्य च सर्वोच्चा अभिव्यक्तिः अस्ति तथा सर्वेषां जनप्रतिनिधीनां स्वागताय सज्जा अस्ति।
अध्यक्षः अवदत् यत् अधिकतमस्य वैधानिकस्य अन्येषां संसदीयकार्याणां च सम्पादनं सर्वेषां सदस्याणां सामूहिकम् उत्तरदायित्वम् अस्ति। एतेन जनविश्वासः दृढः भविष्यति तथा लोकतान्त्रिकसंस्थानां गरिमा अपि वर्धिष्यते। सः सर्वान् सांसदान् आहूतवान् यत् ते एतत् सत्रं सार्थकविमर्शैः जनहितकरनिर्णयैः संसदीयगरिमानुरूपकार्यवाह्या च सफलतया सञ्चालयितुं समवेतप्रयत्नं कुर्वन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani