कहलगांव रेलवे स्थानके मोबाइल फ़ूड वैन इत्येषा सुविधा शुभारब्धा
भागलपुरम्, 20 जुलाईमासः (हि.स.)। यात्रिकसुविधानां उन्नयनस्य दिशि महत्त्वपूर्णं पदम् उपक्षिप्य ईस्टर्नरेलवेस्य मालदामण्डलेन कहलगांवरेलस्थानके चलभोजनयानस्य सुविधा प्रारब्धा। अस्याः सुविधायाः उद्देश्यं यात्रिकेभ्यः स्वच्छं ताजं उत्तमगुणयुक्तं किफाय
मोबाइल फूड स्टॉल


भागलपुरम्, 20 जुलाईमासः (हि.स.)।

यात्रिकसुविधानां उन्नयनस्य दिशि महत्त्वपूर्णं पदम् उपक्षिप्य ईस्टर्नरेलवेस्य मालदामण्डलेन कहलगांवरेलस्थानके चलभोजनयानस्य सुविधा प्रारब्धा।

अस्याः सुविधायाः उद्देश्यं यात्रिकेभ्यः स्वच्छं ताजं उत्तमगुणयुक्तं किफायतिमूल्येन च भोजनं पेयपदार्थांश्च प्रदातुम् अस्ति। एतद्विषये सूचनां सोमवासरे मालदामण्डलस्य जनसम्पर्काधिकारी अददात्। तेन उक्तं यत् एषा योजना मालदामण्डलस्य मण्डलीयरैलप्रबन्धकस्य मनीषकुमारगुप्तस्य मार्गदर्शने तथा मालदामण्डलस्य वरिष्ठमण्डलीयवाणिज्यप्रबन्धकस्य कार्तिकसिंहस्य पर्यवेक्षणे प्रारब्धा। एषा योजना भोजनसेवानां यात्रिकसुविधानां च उन्नयनार्थं मण्डलस्य निरन्तरप्रयत्नानां भागः अस्ति।

चलभोजनयानसुविधायाः उद्घाटनं कहलगांवविधानसभाक्षेत्रस्य विधायकः शुभानन्दमुकेशः अकरोत्। अस्मिन् अवसरे कहलगांवनगरपञ्चायतस्य प्रतिनिधयः, स्थानकविकाससमितेः सदस्याः, स्थानकाध्यक्षः, रेलाधिकारिणः, स्थानीयनिवासिनः, रेलयात्रिकाश्च उपस्थिताः आसन्। अस्मिन् चलभोजनयाने स्वच्छता, शौचपालनम्, उत्कृष्टसेवा च सुनिश्चितुं आधुनिकसुविधाः प्रदत्ताः सन्ति। अस्मिन् याने नानाविधानि ताजभोजनपदार्थाः, पेयपदार्थाः, लघुभोजनानि च उपलब्धानि सन्ति, येन यात्रिकाः यात्राकाले सुगमतया उत्तमगुणयुक्तं लघुभोजनं पेयपदार्थांश्च प्राप्तुं शक्नुवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani