मध्यप्रदेश-विधानसभायां समान-नागरिक-संहिता-विधेयकं प्रस्तुतम्, मङ्गलवासरे चर्चा भविष्यति
– सदसि एकस्मिन्नेव काले चतुर्दश-विधेयकानां प्रस्तुतीकरणे कांग्रेस-विधायकानाम् आपत्तिः, उज्जयिनी-भूमि-क्रय-प्रकरणम् अधिकृत्य कोलाहलः भोपालनगरम्, २० जुलाईमासः (हि.स.)। मध्यप्रदेश-विधानसभायाः वर्षाकाल-अधिवेशनस्य प्रथमदिने सोमवासरे एव राज्यसर्वकारेण स
मप्र विधानसभा (फाइल फोटो)


– सदसि एकस्मिन्नेव काले चतुर्दश-विधेयकानां प्रस्तुतीकरणे कांग्रेस-विधायकानाम् आपत्तिः, उज्जयिनी-भूमि-क्रय-प्रकरणम् अधिकृत्य कोलाहलः

भोपालनगरम्, २० जुलाईमासः (हि.स.)। मध्यप्रदेश-विधानसभायाः वर्षाकाल-अधिवेशनस्य प्रथमदिने सोमवासरे एव राज्यसर्वकारेण सदसि मध्यप्रदेश-समान-नागरिक-संहिता-विधेयकं–२०२६ प्रस्तुतम्। विधानसभाध्यक्षः नरेन्द्रसिंह-तोमरः अवदत् यत् अस्मिन् विषये श्वः चर्चा कारयिष्यते। ततः परं अग्रिमकार्यवाही भविष्यति।

अस्याः पूर्वं सदसि उज्जयिनी-भूमि-क्रय-प्रकरणम् अधिकृत्य चर्चायाः विषये विपक्षस्य सत्तापक्षस्य च विधायकानां कोलाहलः निरन्तरम् अभवत्। तस्य कारणात् विधानसभायाः कार्यवाही द्विवारं स्थगिता। पुनः कार्यवाही आरब्धायां राज्यसर्वकारेण क्रमशः अनेकानि विधेयकानि प्रस्तुतानि। मन्त्रिभिः स्वस्वविभागसम्बद्धपत्राणि सदनपटलस्य उपरि स्थापितानि।

तेषु मध्यप्रदेश-समान-नागरिक-संहिता-विधेयकं–२०२६, मध्यप्रदेश-निरसन-विधेयकं–२०२६, मध्यप्रदेश-अग्निशमन-आपत्कालीन-सेवा-विधेयकं–२०२६, मध्यप्रदेश-राजमार्ग-(संशोधन)-विधेयकं–२०२६, मध्यप्रदेश-निजी-विश्वविद्यालय-(स्थापना-सञ्चालन)-(संशोधन)-विधेयकं–२०२६, मध्यप्रदेश-आयुर्विज्ञान-विश्वविद्यालय-(संशोधन)-विधेयकं–२०२, मध्यप्रदेश-धन्वन्तरि-स्वास्थ्य-विश्वविद्यालय-विधेयकं–२०२६, मध्यप्रदेश-कार्यस्थल-सशक्तीकरण-संहिता–२०२६, मध्यप्रदेश-श्रमशक्ति-संहिता–२०२६, मध्यप्रदेश-व्यवसाय-सुगमता-विधेयकं–२०२६, तथा भारतीय-नागरिक-सुरक्षा-संहिता-(संशोधन)-विधेयकं–२०२६ इत्यादीनि अन्तर्भवन्ति।

मन्त्री गौतम-टेटवालः मध्यप्रदेश-पञ्चायतीराज-ग्रामस्वराज-(संशोधन)-अध्यादेशं–२०२६ तथा मध्यप्रदेश-उपकर-(संशोधन)-अध्यादेशं–२०२६ सदनपटलस्य उपरि स्थापितवान्। ततः परम् उपमुख्यमन्त्रिणौ जगदीश-देवडा, राजेन्द्र-शुक्लः, उदयप्रतापसिंह-तोमरः, चैतन्यकुमार-काश्यपः तथा इन्द्रसिंह-परमारः स्वस्वविभागसम्बद्धपत्राणि सदनपटलस्य उपरि स्थापितवन्तः। उदयप्रतापसिंहस्य च चैतन्यकुमार-काश्यपस्य च स्थाने मन्त्री कृष्णा-गौरः पत्राणि प्रस्तुतवती।

विधानसभा-सचिवालयेन अद्य पूरककार्यसूची प्रकाशिता, यस्याम् एकस्मिन्नेव दिने चतुर्दश-विधेयकानां प्रस्तुतीकरणस्य सूचना प्रदत्ता। एतस्मिन् विषये कांग्रेस-विधायकः बाला-बच्चनः आपत्तिं प्रकटितवान्। सः अध्यक्षं पृष्टवान् यत् यदा एतानि विधेयकानि कार्यसूच्यां नासन्, तर्हि आकस्मिकरूपेण कथं प्रस्तुतानि? अस्मिन् विषये अध्यक्षः तोमरः अवदत् यत् कार्यमन्त्रणासमितेः उपवेशने अस्य विषये चर्चा जाता आसीत्। अतः एतानि विधेयकानि सदसि प्रस्तुतानि। श्वः तेषु चर्चा भविष्यति, ततः परम् अग्रिमकार्यवाही करिष्यते। कांग्रेस-विधायकः सचिन-यादवः अपि अवदत् यत् सदस्येभ्यः पूर्वसूचनां विना एषा प्रक्रिया अनुचिता अस्ति तथा सदनं विश्वासे न गृहीतम्।

संसदीयकार्यमन्त्री कैलाश-विजयवर्गीयः अवदत् यत् संशोधितकार्यसूच्याः व्यवस्था पूर्वमेव अस्ति। अधुना विधेयकानि सदनपटलस्य उपरि स्थापितानि, तेषां प्रतिलिपयः सर्वेभ्यः प्रदास्यन्ते तथा चर्चायै पर्याप्तः समयः अपि दास्यते। विधानसभायां विपक्षनेता उमंग-सिंघारः नियमसम्बद्धम् आक्षेपम् उत्थापितवान्। सः अवदत् यत् यदा कांग्रेस-सदस्याः वक्तुम् इच्छन्ति तदा कार्यवाह्याः अग्रगमनस्य कारणं प्रदर्श्यते, किन्तु यदा भाजपायाः सदस्याः वदन्ति तदा कार्यवाही पुनः प्रत्यागच्छति। एषा द्विविधा नीति अस्ति, अस्मिन् विषये अध्यक्षेन नियमाः स्पष्टतया निर्देष्टव्याः।

वास्तवतः कांग्रेस-विधायकस्य देवेन्द्र-पटेलस्य अनुपस्थितेः कारणात् तस्य ध्यानाकर्षण-प्रस्तावस्य चर्चा नाभवत्। अस्मिन् विषये कांग्रेस-विधायकः सोहनलाल-वाल्मीकि अवदत् यत् तेनापि सूचना प्रदत्ता आसीत् तथा सः पटेलस्य प्रस्तावे चर्चां कर्तुम् इच्छति स्म, किन्तु संसदीयकार्यमन्त्रिणा उक्तं यत् विधानसभायाः कार्यवाही अग्रे गता, सा पुनः न प्रत्यागमिष्यति। उज्जयिनी-भूमि-क्रय-प्रकरणम् अधिकृत्य कोलाहलः, कार्यवाही अपराह्णे त्रिवादनपर्यन्तं स्थगिता

ततः परं विधानसभाध्यक्षः नरेन्द्रसिंह-तोमरः मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य तस्य परिवारस्य च उज्जयिन्यां भूमि-क्रय-प्रकरणम् अधिकृत्य प्रस्तुतं स्थगन-प्रस्तावम् अस्वीकृतम् इति सदसि अवेदयत्। अस्मिन् विषये विपक्षनेता उमंग-सिंघारः आपत्तिं प्रकट्य अवदत् यत् एषः निर्णयः अनुचितः, सर्वकारेण उत्तरं दातव्यम्। ततः उभयपक्षीयाः विधायकाः परस्परं वक्तुम् आरब्धवन्तः। सदसि जातं कोलाहलं दृष्ट्वा अध्यक्षेन कार्यवाही अपराह्णे त्रिवादनपर्यन्तम् स्थगिता।

Hindusthan Samachar / Divya Ranjan