Enter your Email Address to subscribe to our newsletters

- उज्जैने मंगलवासरे भविष्यति पञ्च दिवसीयेन तृतीय अंताराष्ट्रियेन सम्मेलनेन सह संकाय विकास कार्यक्रमस्य उद्घाटनम्
उज्जैनम्, 20 जुलाईमासः (हि.स.)।
मध्यप्रदेशस्य उज्जयिन्यां पञ्चदिवसीये तृतीये अन्ताराष्ट्रियसम्मेलने सह सङ्कायविकासकार्यक्रमे देशविदेशयोः विख्याताः वैज्ञानिकाः, शिक्षाविदः, युवा शोधार्थिनश्च एकस्मिन् एव मञ्चे समागमिष्यन्ति तथा भविष्यस्य वैज्ञानिकचुनौतीनां समाधानं अन्वेषयिष्यन्ति।
उन्नतप्रौद्योगिकी, नैनोप्रौद्योगिकी, स्मार्टमैटेरियल्स इत्येतयोः क्षेत्रयोः अनुसन्धानाय नूतनं परिमाणं दातुं मध्यप्रदेशस्य उज्जयिनी पुनरेकवारम् अन्ताराष्ट्रियवैज्ञानिकचर्चानां प्रमुखकेन्द्रं भवितुम् अर्हति। अस्य तृतीयस्य अन्ताराष्ट्रियसम्मेलनस्य सह सङ्कायविकासकार्यक्रमस्य एनजीएमएफटी २०२६ आयोजनं जुलैमासस्य एकविंशतितमे दिने सम्राटविक्रमादित्यविश्वविद्यालयस्य रसायनजैवरसायनाध्ययनविद्यालयेन, भौतिकविज्ञानाध्ययनविद्यालयेन, औषधसंस्थानेन च संयुक्तरूपेण क्रियते।
विश्वविद्यालयस्य कुलसचिवः डा अनिलकुमारशर्मा सोमवासरे अवदत् यत् भारतीयप्रौद्योगिकीसंस्थानस्य आईआईटी इन्दौरस्य सहयोगेन भविष्यस्य प्रौद्योगिकी उन्नतपदार्थविज्ञानम् इति विषयमधिकृत्य केन्द्रितस्य अस्य पञ्चदिवसीयस्य महोत्सवस्य औपचारिकारम्भः मङ्गलवासरे जुलैमासस्य एकविंशतितमे दिने भविष्यति। तेन उक्तं यत् अस्य अन्ताराष्ट्रियसम्मेलनस्य उद्घाटनं भारतस्य सुप्रसिद्धया वैमानिकवैज्ञानिकया पद्मश्रीसम्मानितया डा शुभा वी अयंगर महोदयया करिष्यते।
डा शुभा वी अयंगरो भारतस्य प्रथमायाः स्वदेशीयायाः दृष्टि रनवे विजिबिलिटी एवं लैंडिंग गाइडेन्स प्रणाली इत्यस्याः प्रमुखाविष्कारकर्त्रीरूपेण परिचिता अस्ति। तस्याः वैज्ञानिकयोगदानं भारतं रक्षा विमाननक्षेत्रयोः आत्मनिर्भरं कर्तुं मीलशिलारूपेण सिद्धम् अस्ति। तस्याः आगमनं विश्वविद्यालयस्य सम्पूर्णमध्यप्रदेशस्य च कृते अत्यन्तं गौरवस्य विषयः अस्ति।
विश्वविद्यालयस्य कुलगुरुः प्रो अर्पणभारद्वाजः अस्य आयोजनस्य महत्त्वं निरूपयन् अवदत् यत् एतत् सम्मेलनं केवलं शोधपत्रप्रस्तुतीकरणपर्यन्तं सीमितं नास्ति, अपितु भविष्यस्य प्रौद्योगिकी, नवाचारः, उद्योगाः, शैक्षणिकलोकः च एतेषां मध्ये दृढसेतुनिर्माणस्य महत्त्वपूर्णावसरः अस्ति। पीएम उषा तथा सक्षम अनुसन्धान नेशनल रिसर्च फाउण्डेशन इत्येतयोः तत्त्वावधाने आयोजितः अयं कार्यक्रमः मध्यप्रदेशं वैज्ञानिकानुसन्धानस्य प्रमुखवैश्विककेन्द्ररूपेण प्रतिष्ठापयिष्यति तथा युवाशोधकर्तृभ्यः विश्वस्तरीयवैज्ञानिकैः सह प्रत्यक्षसंवादस्य प्रेरणां प्रदास्यति।
सम्मेलनस्य संयोजिका प्रो उमा शर्मा अवदत् यत् आयोजनस्य मुख्यकेन्द्रम् एडवांस्ड मैटेरियल्स अस्ति, येषां उपयोगः अद्य ऊर्जा, स्वास्थ्य, रक्षा, इलेक्ट्रॉनिक्स, पर्यावरणम्, भविष्यस्य स्मार्टप्रौद्योगिकीषु च शीघ्रतया वर्धते। अस्मिन् सम्मेलने ऑस्ट्रेलियादेशस्य न्यूकैसलविश्वविद्यालयस्य प्रो अजयन विनु, एल्सेवियर इण्डियायाः डा संदीप संचेती, चित्रा तिरुनाल संस्थानस्य तिरुवनन्तपुरस्य डा हरे कृष्ण वर्मा तथा महाराष्ट्र, उत्तरप्रदेश, राजस्थान, गुजरात, दिल्ली, छत्तीसगढ, तमिलनाडु, कर्नाटकादिराज्येभ्यः वैज्ञानिकाः शिक्षाविदश्च सहभागित्वं करिष्यन्ति।
तया उक्तं यत् पञ्चदिनात्मकस्मिन् सङ्कायविकासकार्यक्रमे सम्मेलने च नैनोप्रौद्योगिकी, औषधविज्ञानम्, उन्नतविश्लेषणात्मकप्रौद्योगिकीषु विशेषज्ञव्याख्यानानि, पोस्टरसत्राणि, व्यावहारिकप्रशिक्षणानि च आयोज्यन्ते। एतत्सह प्रतिभागिनः जुलैमासस्य द्वाविंशतितमे दिने आईआईटी इन्दौरस्य अत्याधुनिकप्रयोगशालानां अनुसन्धानकेन्द्राणां च शैक्षणिकभ्रमणं करिष्यन्ति, येन ते प्रत्यक्षानुभवं प्राप्तुं शक्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani