मध्य प्रदेशाय आयुष्मान भारत योजनायां लब्धो राष्ट्रियः सम्मानः
- बायोमेट्रिक आधारिते प्री-ऑथराइजेशनमध्ये उत्कृष्ट प्रदर्शने लब्धो राष्ट्रियः पुरस्कारः भोपालम्, 20 जुलाईमासः (हि.स.)। आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजनायाः अन्तर्गतं मध्यप्रदेशाय बेस्ट परफार्मिंग लार्ज स्टेट हाइयेस्ट प्री ऑथोराइजेशंस विथ बायो
पुरस्कार लेते हुए मप्र के मुख्य कार्यपालन अधिकारी अरविंद शाह


मध्य प्रदेश को आयुष्मान भारत योजना में मिला राष्ट्रीय सम्मान


- बायोमेट्रिक आधारिते प्री-ऑथराइजेशनमध्ये उत्कृष्ट प्रदर्शने लब्धो राष्ट्रियः पुरस्कारः

भोपालम्, 20 जुलाईमासः (हि.स.)। आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजनायाः अन्तर्गतं मध्यप्रदेशाय बेस्ट परफार्मिंग लार्ज स्टेट हाइयेस्ट प्री ऑथोराइजेशंस विथ बायोमेट्रिक ऑथेंटिकेशन इति वर्गे राष्ट्रीयसम्मानः प्रदत्तः। अयं सम्मानः योजनायाः अन्तर्गतं बायोमेट्रिकआधारितप्रीऑथराइजेशनप्रक्रियायाः प्रभावी, पारदर्शी, सफलक्रियान्वयनस्य च कृते प्रदत्तः। मध्यप्रदेशः अस्मिन् क्षेत्रे उत्कृष्टप्रदर्शनं कृत्वा देशस्य बृहद्राज्येषु अग्रस्थानं प्राप्तवान्।

जनसम्पर्काधिकारी अङ्कुशमिश्रः सोमवासरे अवदत् यत् उपमुख्यमन्त्री राजेन्द्रशुक्लः आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजनायाः अन्तर्गतं मध्यप्रदेशस्य राष्ट्रीयसम्मानप्राप्तौ प्रसन्नतां व्यक्तवान्। तेन उक्तं यत् एषा उपलब्धिः प्रदेशस्य स्वास्थ्यसेवायाः पारदर्शितायाः, प्रौद्योगिकीआधारितसुशासनस्य, जनहितकार्येषु सर्वकारस्य प्रतिबद्धतायाश्च प्रमाणम् अस्ति। तेन अस्याः उपलब्धेः कृते आयुष्मानभारतनिरामयम् मध्यप्रदेशस्य सम्पूर्णदलाय, जनपदाधिकारिभ्यः, चिकित्सालयेभ्यः, योजनासम्बद्धेभ्यः सर्वेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च अभिनन्दनं प्रदत्तम्। तेन उक्तं यत् मुख्यमन्त्री डा मोहनयादवस्य नेतृत्वे प्रदेशे स्वास्थ्यसेवानां अधिकप्रभावित्वाय, पारदर्शितायै, जनकेन्द्रिततायै च निरन्तरं कार्यं क्रियते।

तेन अवदत् यत् राष्ट्रीयस्वास्थ्यप्राधिकरणेन नईदिल्लीस्थे मध्यप्रदेशभवने आयोजितायां राष्ट्रियसमीक्षोपवेशने चिन्तनशिविरे स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य सचिवा पुण्यसलिला श्रीवास्तव आयुष्मानभारतनिरामयम् मध्यप्रदेशस्य मुख्यकार्यपालनाधिकारी अरविन्दशाहाय एतत् पुरस्कारं प्रदत्तवती। अस्मिन् अवसरे राष्ट्रियस्वास्थ्यप्राधिकरणस्य मुख्यकार्यपालनाधिकारी डा सुनीलकुमारबर्नवालः, संयुक्तसचिवः किरणगोपालवास्का, राष्ट्रीयस्वास्थ्यप्राधिकरणस्य यूआईडीएआई आधार संस्थायाश्च वरिष्ठाधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani